पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकन्-४७० कृष्णस्योखलवन्धनवर्णनम् । बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमाये बन्धुमिच्छती । सा नियुज्य रशनागुणान् बहून् बगुलोनमखिलं किलैक्षत ॥ ७ ॥ बन्धुमिति | आये भगवन् | यं सज्जनो मोक्षार्थी बन्धुं शरणामेच्छति, तं भवन्तं सा यशोदा माशेन बन्धुमिच्छती रशनागुणान् बहून् नियुज्य त्वदङ्गे निक्षिप्य व्यङ्गुलोनतया पुनः पुनर्निक्षिप्याखिलमपि रशनागुणं यङ्गुलोनमै- क्षत दृष्टवती किल ॥ ७ ॥ विस्मितोत्स्मितसखीजनेक्षितां स्विन्त्रसन्नवपुत्रं निरीक्ष्य ताम् । नित्यमुक्तवपुरध्यहो हरे! चन्मेव कृपयान्वमन्यथाः ॥ ८ ॥ विस्मितेति । व्यङ्गुलोनतादर्शनेन विस्मितैरत एवोल्मितैः सखीजनैरी- क्षितां स्विनं स्वेदाई सनं क्लान्तं च वपुर्यस्यास्ताम् । नित्यमुक्तं परब्रह्माख्यं वपुर्यस्य स त्वं रशनागुणैर्वन्धं बन्धनमेवान्वमन्यथा अनुज्ञातवान् ॥ ८ ॥ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यहा । प्रामुलूखलबिलान्तरे तदा सपिरमिककस्थियाः ॥ ९ ॥ स्थीयतामिति । सा त्वां बद्ध्वा हे खल ! त्वया चिरमुलूखले स्थीयता- मित्युक्त्वा भवनमेचागता यदा, तदा मागुलखलविलान्तरेऽर्पितं सर्पिर्नवनीतमन्न- वास्थिथा स्थितवानसि ॥ ९ ॥ यद्यपाशसुगमो भवान् विभों! संयतः किंधु सपाशयानया | एवमादि दिविजैरभिडतो वातनाथ! परिपाहि मां गदात् ।। १० ।। यदीति | अपाशानामपगतविषयश्रद्धानां सुगम: सुखेन प्राप्तुं शक्यः | एवं सति संपाशया पाशसहितवानया यशोदया किसु कथं संयतो बद्धः ॥ १० ॥ इति कृष्णस्योलूखलवन्धनवर्णनं समन्चत्वारिंशं दशकम् ।