पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० नारायणीये अपीतमले स्वयि हारामधुराननाम्बुजे | grafia certedर्तुमाशु जननी जगाम ते ॥ २ ॥ अर्धेति । त्वय्यर्पपीतकुचकुड्मलेऽतृते तदन्तरा मात्राङ्गुलीभ्यां कंपोल- तलचालनात् विग्हासमधुराननाम्बुजे च सति ॥ २ ॥ सामिपीतरसभङ्गसङ्गतकोपरचेतसा । मन्थदण्डप पाटितं हन्त देव! दधिभाजनं त्वया ॥ ३ ॥ SHA सामीति | सामिपीतस्यार्धपीतस्य रसस्य स्तन्यस्य भङ्गेन विच्छेदन सक्तः मातो यः क्रोधभारस्तेन परिभूतमावेशितं येतो यस्य स तथा ॥ ३ ॥ उच्चलद् ध्वनितपुचकैस्तदा संनिशम्य जननी समाता । वद्यशोविसरवद् ददर्श सा सद्य एवं दधि विस्तृतं क्षितौ ॥ ४ ॥ उच्चरुदिति । उच्चकैः पूर्णकुम्भपाटनेन सातिशयमुच्चलद॒द्भुतं ध्वनितं शब्दं निशम्य समाद्रुता वेगेनागता | यशसो विसरो व्याप्तिः । सद्यः समाद्रुता दध्येव ददर्शेत्यनेन तब नवनीतमोषणार्थमन्यतो गमनं व्यज्यते ॥ ४ ॥ वेदमार्गपरिमार्गित रुपा स्यामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलखले दीयमाननवनीतमोतवे ॥ ५॥ वेदेति । असौ यशोदा मुनिभिर्वेदमार्गे: काण्डत्रयात्मकैः परिमार्गित न दृष्टं तं त्वां रुपा, न भक्त्या, परिमार्गयन्त्यन्वेषणं कुर्वन्ती सम्यक् चाक्षुषतया ददर्श । अतः सुकृतिनी नवनीतभाजनाघःस्थितोलूखलेऽग्रपादेन स्थित्वातवे मार्जा- राय दीयमानं नवनीतं येन तम् ॥ ५ ॥ त्वां प्रत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूपितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ६ ॥ त्यामते | नाट्यवद् भीतिभावनया भासुरमाननसरोजं यस्य तं त्वाम् | वं रोषेण रूषितं भ्रूभङ्गदशनच्छद्रदेश ननेत्ररक्तिमादिभिश्रितं मुखं यस्याः | • सखीनां पुरः पुरोभागे रशनां पाशम् ॥ ६ ॥ .