पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४७] कृष्णस्पोखलवन्धनवर्णनम् । कलशेति । कलशाम्बुधिशायिनं क्षीराब्धौ शेषपर्यङ्कशायिनं, पुनस्ततः पर बैकुण्ठपदाधिवासिनं, स्वस्य पुरः पुरतो निवार्भकात्मकं यशोदातनयरूपं त्वां सा कतिधा न ददर्श ॥ ८ ॥ , ननु यशोदा स्वसुतस्यास्ये स्वसुतं ददर्शयुक्तं तस्याप्यास्ये किं भुवनानि विद्यन्ते न वेति शङ्कायामाह- विकसभुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ।। ९ ।। विकसदिति । विकसन्ति भुवनानि यस्मिस्तद् विकसद्भुवनं प्रकाशितव्र- ह्माण्डं तस्मिन् मुखोदर आस्ये तथाविधं विकसङ्खुवनमाननं यस्य स भवाननया स्फुटं स्पष्टमीक्षितः जगतां प्रपञ्चानामनवस्थामनवसानताम् । अयमर्थ: यशोदा स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श | तस्यापि स्वसुतस्वास्ये जगत् स्वसुतं च ददर्श, पुनस्तस्याप्येवं, पुनश्च तस्यापि । एवं दर्पणस्थप्रतिबिम्बदर्पणानवस्थाबद् भवान् जगतामनवस्थामातनोदिति ॥ ९ ॥ घृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमम्ब! दिशेत्युपार्सेजन भगवद्भुतवाल! पाहि माम् ॥ १० ॥ · घृतेति । तस्यान्तर्मागेऽनेक ब्रह्माण्डस्य तद्वहिष्ठवैकुण्ठलोकस्यापि दर्शनात् तहिष्ठायाः प्रकृतेः परं सच्चिदानन्दाद्वयं ब्रह्मैवेदं योगैश्वर्येण मत्पुत्रभावेनात्मानं प्रदर्श्य मोहयतीति क्षणं वृता तत्वधः सम्यग्ज्ञानं यया तामुपासजन्नकमारुरुक्षन् अनेक ब्रह्माण्डदर्पणस्थानीयत्वादद्भुतबाल! || १० || इति विश्वरूपप्रदर्शनवर्णनं षट्चत्वारिंशं दशकम् । एकदा दघिविमाथकारिणीं मातरं सघुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयङ्कमेत्य पपिवान् पयोधरौ ॥ १ ॥ एकदेति । दो विमाथो विमथनं तत् करोतीति तथा । समुपसेदिवान समीपं प्राप्तवान् । अङ्कमेत्यारुह्य निवारयन् दधिविमथनमिति शेषः ॥ १ ॥ १. 'स्ये स्वात्मानं स्वतं च द 'ग. पाठः. २. 'व' क. पाठ:. ३. 'त्र' क. स. पाठ:.