पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ नारायणीये [स्कन्धः - १० पुनरिति । पुनरपि किञ्चिद्वयोतिक्रमणे सति त्वयि बालकैः समं सह ॥ २ ॥ अयि से मलयावध विभो ! क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो राजा भवेदिति भीता जननी चुकोप सा ॥ ३ ॥ अयति । प्रलय एवावधिः प्रलयावधिः । प्रत्यहमिव प्रतिप्रलयं क्षित्यादिस- मस्तं प्रपञ्च मक्षयितुं शीलमस्येति तथा तस्य' से मृदुषाशनतः क्षितिलवमात्रभक्षणेन रुजा रोगो भवेत् ॥ ३ ॥ अयि दुर्विन्यात्मक ! त्वया किमु मृत्सा बत वत्स ! भक्षिता | इति मातृगिरं चिरं त्रिभो ! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४ ॥ अग्रीति | वित्थामयथार्थी प्रतिजज्ञिषे प्रतिज्ञातवानसि ॥ ४ ॥ आये ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् । इति मातृविभर्तिसतो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ५ ॥ अयीति | सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते भृद्धोजने तवैकस्य विमतिबिंवादोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभसिं- तोऽधिक्षितः विकसत्पद्मनिभं यथा भवति तथा व्यवारयः ॥ ५ ॥ अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ६ ॥ अयीति | बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ || कुहचिद् वनमम्बुधिः कचित् कचिदभ्रं कुहचिद् रसातलम् । मनुजा दनुजाः कचित् सुरा ददृशे किं न तदा त्वदानने ॥ ७ ॥ कुहचिदिति । तवान्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥ ! कलशाम्बुधिशायिनं पुनः पवैकुण्ठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ८ ॥ 7. 'पि' क.स पाठः २. '३' ल. पाठः.