पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रोषो द्रव्यनाशे शोकश्चावकाशमास्पदं नामजत । कम्मादित्यत्राह हृदयामिति । तत्राह- सुषित्वापहृत्य । नन्वपहृतं हृदयं यत्र तत्र रोषशोकौ प्राप्नुयातामेव । हर्षसिन्धाविति । यथा जलस्थे काटे ज्वलनप्रवेशोऽशक्या, तद्रद्धर्षसि तविरुद्धयो रोषशोकयोरप्यनवकाश इति भावः ॥ १० ॥

  • कि किं ते मिति संभ्रमभाजयेनं

ब्रह्माणवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनयमोहमयी विनत्य-

  • शाखाग्रेऽथ विधुं विलोक्य फलमित्यग्वां च तातं मुहुः

सम्मार्थ्याथ तदा तदीयवचसा मोत्क्षिप्तवाही स्वयि चित्रं देव शशी स ते करमगात् किं ब्रूमहे सम्पत ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराडूपताम् ॥ ११ ॥ नानन्दचिन्मय! जगन्मय! पाहि रोगात् ।। १२ ।। इति कृष्णस्य बालकांडावर्णन पञ्चचत्वारिंशं दशकं सदिकम् । अयि देव! पुरा किल त्वयि स्वयमुत्तानशयै स्तनन्धयं । परिजृम्भणतो व्यपात्रते वदने विश्वमचष्ट वटुवी ॥ १ ॥ - हृदये अयीति | अयि देव | क्रीडापर ! पुरातिशैशवे स्वयं साक्षादीवरे त्वयि उत्तानशय ऊर्ध्वमुखशायिनि । स्तनं घयति पिवतीति स्तनन्धयः | परिजृम्भणतो मुखविजृम्भणदशायां व्यपावृते विदारिते वदने आस्ये विश्वमचष्ट दृष्टवती ! बलवी यशोदा ॥ १ ॥ पुनरप्यथ वालकैः समं त्वयि लीलानिरते जगत्पते! | फलसञ्चयवञ्चनकुधा तव मृद्धोजनमूचुर्भकाः ॥ २ ॥ १. 'ति । न केवलं दविघृतमोषणमेव कृतवान् तासां हृदयमपि मुपित्या तव हर्षसिन्धो न्यथाः ॥' ग. पाठः, पद्यद्वयमिदं क. पुस्तके परं दृश्यते । तत्रापि न व्याख्या दृश्यते ।