पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये भवनशुकबिडालान् वत्सकांश्चानुधावन् कथमपि कृतहासर्गोपकैर्वारितोऽभूः ॥ ६ ॥ [स्कन्ध:- १० तदन्विति । आरात् समीपस्थासु निलयततिषु भवनान्तरेषु खेलन् गच्छन् ॥ ६ ॥ गोपीनां भवदनुसरणैकचित्ततया गृहकृत्यादिष्वपि विस्मृतिर्जातत्याह----- हलधरसहितस्त्वं यत्र यत्रोपयातो विवश पतितनेत्रास्तत्र तत्रैव गोप्यः | विगलितगृहकृत्या विस्मृतापत्यभृत्या सुरहर! मुहुरत्यन्ताकुला नित्यमासन् ॥ ७ ॥ गोपीनां नवनीतादिपणेन त्वं तदर्शनार्थ नर्तनाद्यपि कृतवानसीत्याह- प्रतेनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन कोमलं कापि नृत्यन् । सदययुवतिलोर्केरर्पित सर्पिरश्नन् कचन नवविपकं दुग्धमप्यापिवस्त्वम् ॥ ८ ॥ मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमतिः किं देव! सन्त्यज्य याच्चां दधेिघृतमहरस्त्वं चारुणा चोरणेन ॥ ९ ॥ ममेति । मम बलिगेहे प्राम् याचनं जातम् । तत्तु बलेर्बलित्वादेव नास्माकं दैन्यापादकमित्यास्तां स्वल्वेतत् । इह तद्विपरीतानामबलानामग्रतस्तन्न कुर्वे इति विहितमतिर्निश्चितचित्तश्चारुणा विचित्रोपायरचितेन चोरणेन स्तेयकर्मणा ॥ ९ ॥ तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोकः । हृदयमपि सुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान् वांतगेहाधिनाथ! ॥ १० ॥