पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४५] कृष्णस्य बालक्रीडावर्णनम् । अनुसरति जनौधे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याइसन्तौ द्रवन्तौ । वलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विधार्थ कौतुकं वासुदेव ! ॥ ३ ॥ । अन्विति । जनौघेऽनुसरति सति द्रवन्तौ वेगेन चरन्तौ ततो दूरस्थे जनौ- घे वलितबदनपद्मं तिर्यक्कृतमुखपद्मं यथा तथा पृष्ठतो दत्तदृष्टी, किमिवेति अति- शयेन कौतुकं विदधाथे अजनयतमित्यर्थः ॥ ३ ॥ द्रुतगतिषु पतन्तापुत्थितौ लिसपड़ो दिवि मुनिभिरप: सस्मितं वन्द्यमानौ । द्रुतम जननीभ्यां सानुकम्पं गृहीतो मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥ ४ ॥ १७५ द्रुतेति । द्रुतगतिषु वेगेन सञ्चरणेषु व्रजकर्दमे पतन्तौ दिवि द्रष्टुमागतैर्मु- निभिरस्मानपङ्कीकर्तुं समर्थावेतौ स्वयं लिप्तपक अध:पतनभयेन यावाश्रयामस्तौ स्वयं पतन्ताविति सस्मितम्, अहो भक्तपारतन्त्र्यमीश्वरयोरिति वन्द्यमानौ ॥ ४ ॥ स्तुतकुचभरम धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या | कपटपशुप ! मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्रं जहर्ष ॥ ५ ॥ "स्नुतेति । स्नुतं प्रसृतस्तन्यं कुचयुगं यस्मिन्, तरला कूपाकुला मतिर्य- स्मिन् इति च क्रियाविशेषणम् । तथा भवन्तमके धारयन्ती या स्तन्यं ददाति, सा यशोदा धन्यधन्या | हे कपटपशुप ! स्तनपानमध्ये ते दशनमुकुर्हृद्यं मुग्धो हा- साङ्कुरो मन्दस्मितं यस्मिन् तद् वक्रं वीक्ष्य जहर्ष सन्तुष्टाभूत् ॥ १ ॥ तदनु चरणचारी दारकै: साकमारा- निलयततिष खेलन् बालचापल्यशाली ।