पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्धमानस्त्वम् । मद्रमुद्रतकरुणो निर्गमय श्रीमरुत्पुराधीश! ॥ १० ॥ [स्कन्धः - १० गर्ग इति । नन्दितैर्मुदितैर्नन्दादिभिर्नन्द्यमानो लाल्यमानो मम गदं रोगं निर्गमय निराकुरु ॥ १० ॥ इति कृष्णस्य जातकर्मनामकरणवर्णनं चतुश्चत्वारिंशं दशकम् । आये सबल! मुरारे! पाणिजानुमचारैः किमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकसे मञ्जुयञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुचारू वेगात् ॥ १ ॥ अयीति । पाणिजानुप्रचारैः पाणिद्वयेन जानुद्वयेन च कृतैश्चङ्गमणैर्भवनभागा- नालन्दादिप्रदेशान्, एकत्र चिरमनबस्थानात् किमपि कञ्चित् कालं भूषयन्तौ चलिते चरणकजे पादाम्बुजे मञ्जुमञ्जीरशिखा श्रवणकुतुकमाजौ यतः, अतो बेगाचेरतुः ॥ १. 'ओ' मूलपाठ: मृदु मृदु विहसन्तावुन्मिषदन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाको मतिमहरतमुचैः पश्यतां विश्वनृणाम् ॥ २ ॥ मृद्विति । अन्तरान्तरा यत्किञ्चिदवलोक्य मृदु मृदु विहसन्सावत एवोन्मि- षद्दन्तवन्तौ दृश्यमानकतिपयदन्तमुकुलौ । अङ्घ्रिद्वयाकर्षणे दृश्यौ ध्वजवज्रायकि- तत्वेन दर्शनीयौ पादाब्जदेशौ ययोः । भुजगलितेति भुजोपरिदेशाद् गलितत्वान्म- णिबन्धलमकङ्कणैः सञ्जातपरभागौ युवां विश्वेषां नृणां मतिमुचैरतिशयेनाहरत जह्रथुः ॥ २ ॥