पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिङ्मात्रं प्रदर्शितमिति । *ननु भक्तियोगपरतया भक्तैरादरणयामदामेत्युक्तम् । अथ केयं भक्तिर्नाम । उच्यते । उपायपूर्वकं भगवति मनसः स्थिरीकरणं भक्तिः । सच भक्तिरसो विहिताविहितकर्मज्ञानमिश्रादिभेदेन बहुधा | पुनरपि शृङ्गाराद्यु- पायभेदान्नवघेति बोप्पदेवः | अन्ये त्वेवं भक्तावपि वाध्यमिति वदन्तो भक्तेररस- तामाचक्षते । तथाहि ---- भक्तिर्न रसः, रसलक्षणाभावाद्, “बिभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥” इति हि रसलक्षणम् । यथा शृङ्गारादिरसे रत्यादि: स्थायी भावः । नायिकानायक- चन्द्रमन्दानिलादयो विभावाः | कटाक्षवीक्षणादयोऽनुभावाः स्तम्भस्वेदादयः साविका: । निर्वेदग्लान्यादयो व्यभिचारिणः । एवंविधविभावादिसंयोगाभावान्न भक्ती रसतामापद्यत इति, मैवम्, अत्रापि रससामग्रीसद्भावात् । केनाप्युपायेन श्रीकृष्णे मनोनिवेशः स्थायी भावः । 'तस्मात् केनाप्युपायेन मनः कृष्णे निवेश- येद्' (स्क. ७. अ. १. श्लो. ३१.) इति श्रीभागवतवचनात् । तत्रोपायो नवधा | तदुक्तं बोप्पदेवेन 'भक्तिरसस्यैव हास्यरूरौद्रभयानकबभत्सशान्ताद्भुतवी- ररूपेणानुभवाद्' इति 'व्यासादिभिः कविभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा चरित्रस्य नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो भक्तिरस' इति च । अत एते भगवति प्रयुज्यमाना भक्तिरसतामापद्यन्ते । गोविन्दो गोप्यश्चालम्बनविभावाः। चन्द्रे॑मन्दानिलचरित्रश्रवणाय उद्दीपनविभावाः | कटाक्षवीक्षणस्तम्भस्वेदादयोऽनु- भावाः । निर्वेदग्लानिशङ्कवृत्यादयो यथायोगं व्यभिचारिणः । एवं सामग्री- सद्भावेऽपि भक्तेर्बहिष्करणं स्वयं भक्तिरसास्वादबहिरङ्गतामात्रशरणम् । नच वाच्य- मसर्वदिषयत्वाद् भक्ते रसपदव्यनारोह इति । तथाच श्रोत्रियब्रह्मचार्याद्यविषयतया शृङ्गारादीनामप्यर सतापातादिति सिद्धं भक्ते रसत्वम् । एवंविधभक्त्यनुभवाद् भक्ता अपि नवविधाः । “गोप्यः कामाद् भयात् कंसो द्वेषाश्चैद्याइयो नृपाः । सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ! ॥" (स्क. ७. अ. १. लो. ३०.) १'ए' क. पाठः, २. 'भा' ग. पाठः, ३. 'हातपच' क. पाठः ४. 'णश्च' पाठ.. ५. 'भा' ग. पाठः.

  • 'ननु' इत्यारभ्य 'सुगमम्' इत्यन्तं तृतीय लोकव्याख्यानमध्ये उपरिस्थमुपादायते' इत्ये-

तदन्तं व्यतिक्षिप्तं मुद्रितपुस्तके |