पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८

विकिस्रोतः तः
(पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१९ इत्यस्मात् पुनर्निर्दिष्टम्)
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - १. 1 प्त्योः सौकर्ये द्योत्यते । दुर्लभ्यवस्तुन्येवं सुलभतया हस्तब्धे सत्यपि अन्यद् देवतान्तरं विषयादिकं वा तन्वा नाचा धिया वा भजति जन इति यत्, तद् बत कष्टम् । इयं क्षुद्रता असारतैव, अविवेकितैवेति यावत् | स्फुटा सर्वसम्मते- त्यर्थः । विवेकिनो विशेषमाह - एत इति । वयमित्यात्मनि बहुवचनम् । एत इति स्वस्य भगवद्भजनसंरम्भं दर्शयति । यद्वा एते वयमिति श्रोतारोऽपि गृह्यन्ते। एते वयं तावत् तु तथा क्षुद्रतां न कुर्मः, किन्तु स्थिरतरेण एतद्भजनमेव श्रेय इति निश्चितेन मनसा गुरुपवनपुराधीशं परं ब्रह्मैव आश्रयाम: सेवामहे । अत्र ये सकामास्तान प्रति फलं दर्शयति --- विश्वेति । विश्वपीडानामाध्यात्मिकादीनां सर्वपीडानाम्, अपहत्यै नाशाय | अथवा विश्वपीडापहतिर्मोक्षः तस्यैव सकल- पीडानिवृत्तिरूपत्वात् । अनेन च येऽकामनयैनं सेवन्ते, त उत्तमाधिकारिणः, ये तु फलकामनया सेवन्ते, ते मध्यमाधिकारिणः, ये तु भेद्द्यान्यद् देवतान्तरं सकामाः सेवन्ते, तेऽवमाधिकारिण इति स्तोत्रेऽधिकारिभेदोऽपि प्रदर्शितः । विश्व- पीडापहत्यै इति प्रयोजनमुक्तम् । निश्शेषात्मानमिति भगवद्विशेषणेन विषयो निर्दिश्यते । निश्शेषाणां चराचराणाम् आत्मा कारणम्, अथवा निश्शेषश्चराचर- प्रपञ्च आत्मा स्वरूपं यस्य स तथा सर्वात्मा, यद्वा निश्शेषाणामात्मा अन्तर्यामी, यदिवा निश्शेषाणां ब्रह्मविष्णुगिरीशादीनाम् आत्मा स्वरूपभूतः तं सर्वदेवमय- मित्यर्थः । अत्र क्रियारूपा साधनभक्तिरपि विषयत्वेन निर्दिश्यते १ तन्वा वाचा घिया वेति । तदुक्तं - “भक्तिर्हि द्विविधा प्रोक्ता साध्यसाधनभेदतः । साध्या ह्यह्रैतुकी प्रीतिः क्रिया स्यात् साधनात्मिका || सा पुनर्नवथा प्रोक्ता पुराणे साधनात्मिका । " इति । अत्र चाचेति कीर्तनमुच्यते, तन्वेत्यर्चनवन्दननमस्काराः, धियेति श्रवण- स्मरणदास्यसख्यात्मनिवेदनानीति । अथवा दुर्लभ्यं वस्तु मनुष्यजन्म तस्मिन् | एवं ब्राह्मण्यविद्यापटुकरणत्वाद्याश्रयतया हस्तलब्ध इति कैङ्कर्यादिराहित्यं द्योते- यति । एवं सत्यपि अन्यद् अन्यशरीरेष्वपि सुलभं विषयादि जनो भजति १. 'म्' । साइ' क. पाठ:. २. 'अवि' क. पाठ:. ३. 'रभेदी द' क. पाठः, क. पाठः, ५. 'सते' क. पाठः,