पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन्महिमानुवर्णनम् । द्यातत्कल्पितशरीरादिसम्बन्धस्यासम्भावनीयत्वादिति भावः । एवञ्च मुक्तावस्थाया अजन्यत्वान्न पुनरावृत्तिरिति भावः । एवं सान्द्रानन्दावबोधात्मकं तत्त्वमिति पद- द्वयेन सच्चिदानन्दं ब्रह्मेति स्वरूपलक्षणभुक्तम् । अनुपमितपदेन तस्याद्वितीयत्व- मुक्तम् । कालदेशावधिभ्यां निर्मुक्तमिति ब्रह्मणो जीवैक्येऽपि कर्तृत्वादिजीवधर्मा- सम्भव उक्तः । अर्थात् तटस्थलक्षणमप्युक्तम् । निगमशतसहस्रेण निर्भास्यमान- मित्युपनिषदां प्रामाण्यं चोक्तम् । एवम्भूतं ब्रह्म गुरुपवनपुरे साक्षाद् भातीत्यतिम- याससाध्यस्य ब्रह्मदर्शनस्य सकलजन सुसम्पाद्यत्वमुक्तम् | हन्त भाग्यं जनानामिति ब्रह्मदर्शनाधिकारस्य सुकृतैकमूलत्वं चोक्तम् । दृष्टमात्रे अस्पष्टमिति ब्रह्मानन्दानु- भवस्य श्रवणादिसाध्यत्वमुक्तम् । पुनरुरुपुरुषार्थात्मकमिति संसारदुःखोच्छेदो ब्रह्मानन्दावातिश्चेति ब्रह्मदर्शनस्य फलद्वितयं दर्शितम् । नित्यमुक्तमिति ब्रह्म प्राप्त- स्य 'अनावृत्तिः शब्दाद्' (ब्र. सू. ४. ४.२२) इति न्यायेनापुनरावृत्तिश्च दर्शितां । एवं ब्रह्मण उपास्यत्वोक्तेः 'ब्रह्म भाति, परं धीमही' त्यादिपदानां तात्पर्येक्यादप्य- नेन श्लोकेन श्रीभागवतप्रथम लोकार्थ एक प्रदर्शितः । अत्र च स्तोत्रे ब्रह्म प्रतिपा द्यत्वेन विषयः, तत्प्राप्तिः प्रयोजनं, भाग्यवन्तोऽधिकारिण इत्यपि सूचितम् ॥ १ ॥ एवं ताबन्मङ्गलाचरणपरेण प्रथमश्लोकनार्थात् प्रतिपादिते अपि विषयप्र- योजने श्रोतृजनसुखप्रतिबोधनाय मुखतः प्रतिपादयति – एवं दुर्लभ्यवस्तुन्यपि सुलभता हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति वत जनः क्षुद्रतैव स्फुटेयम् । एते तावद् वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ २ ॥ देशकम् - १] एवामति । अनौबिशिष्टेन वस्तुशब्देन परमार्थसह्मोच्यते, मिथ्यार्थे बिशिष्टस्यैव प्रयोगदर्शनात् । तद् दुर्लभ्यं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, साध- नचतुष्टय सम्पन्नैर्गुरूपसतिद्वारा श्रवणमननादिमिरेवावगन्तुं शक्यत्वात् तस्मिन् । एवम् उक्तेन प्रकारेण सुलभतया अनायासेन । हस्तलब्ध इत्यनेन तज्ज्ञानप्रा- १. 'ता। ब्रह्म भा' ख. पाठः २. 'ते वि' क. पाठः. ३. 'न वि' क. पाठ: दुःशब्दस्य लभ्यशब्देन समासः,