पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 नारायणाये [स्कन्धः - १. काल- प्रसङ्ग इति चेद्, न, विद्याविद्ययोर्मेंदा दुभयोपपत्तेः । तथाहि विद्या नाम विक्षेप- शक्तिप्रधानेश्वरोपाधिः, ययेश्वरः सृयादि करोति । अविद्या नामावरणशक्तिप्रधाना जीवोपाधिः, ययेश्वरः सन्नपि जीवस्तस्कृतोपाधिभेदेन संसारी भवति । अतो जीवे- श्वरयोरे कत्वेऽप्यविद्यया संसारो विद्ययां च तदभावो नानुपपन्नः । अनादित्वान्नि- र्गुणत्वाच्चेश्वरस्य जरामरणादिसांसारिकथर्माश्च न भवन्ति, यथा स्वादुस्थितस्य स्वामाः कर्तृत्वभोक्तृत्वादय इत्यलमतिप्रसङ्गेन । ननु कर्तृत्वकृत्वादिरात्मनः स्वाभाविको धर्म दात न कदाचिन तेन वियोगः स्यादित्याशङ्कचाह देशावधिभ्यां निमुक्तमिति । कालतो योऽवधिर्देशतश्च, ताभ्यां निर्मुक्तं, विरहित- मित्यर्थः । ततश्च व्योमबदमूर्तस्य कूटस्थस्य ब्रह्मणः क्रियादिसंयोगानुपपत्तेर्न कर्तृ- स्वभोकृत्रे इत्यर्थः । नित्यत्वं च ब्रह्मणः कार्यप्रपञ्चस्योत्पत्तेः प्राक् पश्चादपि विद्य- मानत्वम् | विभुत्वं च यथा मृत्युवर्णादेर्घटकुण्डलादिषूपादानकारणत्वेनानुगमः, तद्वत् सर्वोपादानस्य ब्रह्मणोऽपि सर्वत्र शरीरादौ कारणत्वेनानुस्यूतत्वात् सर्वव्या- तत्वम् । अतोऽनेन जगत्कारणं ब्रह्मेति अयावलक्ष्यभावि तटस्थलक्षणमप्यर्थादुक्तं बेदितव्यम् । एवं लक्षणद्वयसिद्धन्य वस्तुनः प्रमाणापेक्षायामाह - निगमेति । निगमा उपनिषदः, तासां शतसहस्रमिति बहुत्वाभिप्रायम् | बहुभिरुपनिषद्वाक्यै- रित्यर्थः । अस्पत्रं यथा भवति तथा निर्भस्यमानमिति, उपक्रमोपसंहारादिभिर्लि- जैस्तात्पर्येण लक्षणया प्रतिपाद्यमानमित्यर्थः । यद्वा दृष्टमात्रेऽस्पष्टमिति सम्बन्धः । वाक्यार्थज्ञाने सत्यपि विपरीतान्यथाभावनादि दियोहवत् सहसा न निवर्तते । अतः श्रवणमननादिना तन्निवृत्तावेव ब्रह्मज्ञानमनुभवपर्यवसाय्यवतिष्ठत इति भाषः | नम्बेवंभूतमदर्शने सति किं फलं सत्राह- पुनरुरुपुरुषार्थात्मकमिति । पुनः ब्रह्मज्ञानानन्तरमित्यर्थः । उरुः पुरुषार्थो मोक्षः | तस्य चोरुत्वं दुःखानुषङ्गा- भावात् कालदेशानवच्छेदाच परिपूर्णत्वम् इतरपुरुषार्थानां कर्मजन्यतया तदभा- वात् । पुरुषार्थात्मकमिति । ब्रह्मज्ञानसमनन्तरमेव ब्रह्म पुरुषार्थरूपेणावतिष्ठत इत्यर्थः । एवं ब्रह्मभूतस्य न पुनरावृत्तिरित्यभिप्रायेण ब्रह्म विशिनष्टि -- नित्यमु- तमिति | नित्यमेव मुक्तं मायातत्कापिरागरहितम् । परमार्थतोऽद्वितीयस्यावि- 1 FAY १. 'यात' क. पाठः २. 'कमिति वि' क. पाठः, ३. 'ति या' ख. पाठ: ४. 'तेषां शख. पाट:. ५. 'ण प्र' क. पाठः. ६. 'हादिव' क, पाठः. ७. 'ने किं' क. पाठः, ८. 'तू |ञ' ख. पाठः,