पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ दशकम् - १1 भगवन्मडिमानुवर्णनम् | स्तदर्थिमिर्निधिग्रहणं कर्तव्यनित्यनेनोक्तनित्यध्याहृत्य वाक्यशेष कल्पयन्ति तद्व- दत्रापि वाक्यशेषोऽध्याहर्तव्यः । एवञ्च कथञ्चिद् बहुजन्मार्जितपरिपाकवशेन लब्धमनुष्यजन्मानो यूर्य भक्तिरसर भक्तानुमायानाकृतसत्त्वविग्रहं श्रीगुरु- वायुपुरनाथं परं ब्रह्म संसेव्य परमपुरुषार्थमनुभवतेत्युपदेशरहत्यमेवैतदित्यवगन्त- ध्यम् | ननु भाग्यमिति कर्मफलमुच्यते । तज्जन्यत्वे परमपुरुवार्थस्यानित्यत्वप्रस- ङ्ग इति चेद्, , 'एषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनम्' इति । ब्रह्मणः स्वरूपलक्षणमाह - सान्द्रानन्दावबोधात्मकं तत्त्वमिति | आनन्दः सुखम् अवबोषो ज्ञानं, सान्द्रौ घनीभूतौ आनन्दावबोधावात्मा स्वरूपं यम्य तत् तथोक्तम् । आनन्दस्य सान्द्रत्वं नाम सक्चन्दनापाध्यनवच्छिन्नत्वम् । अवयोधस्यै च घटादिविषयानवच्छिन्न- त्वम् । यदुक्तमभियुक्तैः. · 'यस्मिन्यस्मिनस्ति लोके बोधस्तत्तदुपेक्षणे । - यद् बोधमात्रं तद् ब्रह्मेत्येवं वेदान्तनिश्चयाद् || ' इति । तत्त्वं परमार्थं सत्, सर्वस्याध्यात्मत्वेन प्रसिद्धत्वात् । कस्यापि हि न नामस्मीति प्रतीतिरुदेति । एवञ्चाहंमत्यय एव प्रत्यगात्मत्वेन ब्रह्मणः सिद्धवान तत्सत्त्वे विप्रतिपत्तिरिति भावः | आभ्यां विशेषणाभ्यां सच्चि- दानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तं, यथा प्रकाशचन्द्रमा इति । नन्वेद- लक्षणमपि ब्रह्म नानुभवपदवीमवतराते । अत ईदृशं तदिति सदृष्टान्तं प्रद- शर्यतामित्याशङ्कचाह -- अनुपमितमिति | सजातीयस्य विजातीयस्य वान्यस्या- भावाद् ब्रह्मणः केनाप्युपमान मशक्यमिति भावः । अनेन च ब्रह्मणोऽद्वितीयत्वम- प्यर्थादुक्तम् । ननु जीवेश्वरयोजवानां तदुपावीनां च मेढ़े जाग्रति कथमद्वितीय- त्वं ब्रह्मण इति चेद्, मैवं, मेदप्रपञ्चस्य ब्रह्मण्यनाद्यविद्याकालपतत्वेन सम्भुज- जवन्मिथ्यात्वात् । तेन तावन्न सद्वितीयत्वम् | अविद्या चेन्द्रजालावद्येव स्वाश्रयमै - न्द्रजालिकमाविमोहयती ब्रह्माश्रिता कविनेणिशक्तिः । शक्तिशक्ति- मतोरभेद् इति ब्रह्माद्वैनत्वमिद्धिः । ननु जीवेश्वरौ मिनो विरुद्धधर्मत्वाद् दहनतु- हिनवदिति भेदानुमानमस्तीतिर्ननियाधित विषयत्वादस्यानु- मानस्य । नन्वीश्वरस्य जीवैकत्वे संसारित्वं ज्याद, जीवानां चेश्वरत्वे संसारोभाव- १. 'क्या क' ख. पाठः. २. 'त्वे च पु' क. पाठः, ३. 'श्य घ' क. पाठः, के रू. पाठः, ५. 'राज' ख. पाठः,