पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तावद् भाति साक्षाद् इन् भाग्यं जनानाम् ॥ १ ॥ सान्द्रेति । ब्रह्म गुरुपचनपुरे साक्षाद् भातीति सम्बन्धः । ब्रह्म सर्वाश्रयं सर्वा - नुस्यूतं शुद्धचैतन्यम् | गुरुपचनपुरे गुरुपचनपुरमिति प्रसिद्धे क्षेत्रे | साक्षाद् भाति भक्तानुग्रहायातिस्वच्छतरशुद्धसत्त्वनयमूर्ति सद् आच्छादितनिजसच्चिदानन्दरूपं प्रतिमामिषेण सकलजनचवानगोचरीभवतीत्यर्थ: । ननु किं सकलं निष्कलं वा ब्रह्म साक्षाद् भातीत्युच्यत इत्याशङ्कायामाह- -तत्तावदिति । तावच्छब्दोऽवधा- रणे । यद् उक्तविशेषणविशिष्टं निष्कलं ब्रह्म, सदेवेत्यर्थः । शुद्धसत्त्वस्य च नि- कलब्रह्मानन्यत्वं 'निष्कम्प (लो. ४) इत्यत्रोपपादयिष्यते । अथवा तावच्छब्दः क्रमार्थ: । तद् ब्रह्म तावत् क्रमानुरोधेन साक्षाच्चाक्षुषतया मानसतया स्वप्रका- शसंविद्रूपेण च भातीत्यर्थः । अयं चाशयः -- - श्रीगुरुपवनपुराधीशं चक्षुषा साक्षा- स्कृत्य श्रवणकीर्तनाविलक्षणया भक्त्या भजतां झटिति सञ्जातया प्रेमलक्षणया भक्त्या निखिलकल्मषनाशे सति निर्मलचेतस्तयः विलम्बितमेव साधनचतुष्टयसम्प- चेरधिकारित्वे जाते सकललोकगुरोः श्रीहरेरेव प्रभावेणाहमखण्डं ब्रह्मास्मीति चित्त- वृत्तिरुदेति | सा च ब्रह्मविपया सती ब्रह्मगताज्ञानबाधनद्वारा तत्कार्यभूतं शरीरा- दिप्रपञ्चं, तदन्तर्भूतामखण्डाकारां चित्तवृत्तिमपि बाधते । तदा दर्पणाद्यभावे बिम्ब- प्रतिबिम्बैक्यवत् प्रत्यगभिन्नं सच्चिदानन्दं ब्रह्म स्वप्रकाशसंविद्रूपेणावतिष्ठत इति । एवमनायासेनार्यलज्यिः सुकृतपरिपाकैकमूलेत्याह - हन्त भाग्यं जना- नामिति । जनानां भाग्य पुरुषार्थ इत्यर्थः । जनानामित्य- www.m • विशेषोक्त्या सर्वेषामपि भगवद्भजनाधिकार इति द्योत्यते । इन्तेति हर्षे । जनानां भाग्ये सति हर्षाविर्भावोऽस्य शुक्रनारदादिभगवदधिकारिपुरुषाणामिव परमकारुणि- कतया परार्थघटनकुतुकित्वं द्योतयति । ननु किमर्थनिदमुच्यते 'ब्रह्म भाति, हन्त भाग्यं जनानामिति । न तावत् स्वप्रतिपत्त्यर्थ, वाक्यप्रयोगवैयर्थ्यात् । न परं बोध- यितुं, 'भजध्वनि' त्यादितदुपपादक वाक्यशेषाश्रवणादिति चेद्, मैवम् । यथा केनचिल्लाक्षाणिकेन ‘निधिगर्भेयं भूमि:, हन्त भाग्यवन्तो यूयम्' इत्युक्ते श्रोतार- १. "कजनानु' क. पाठः ९. 'तत्त्वस्य नि' क. पाठ ३. 'वधु' के. पाठ