पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीनारायण भट्टकृतं नारायणीयं देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् । गजाननं गिरां देवीं व्यासं कंसहनं गुरुन् । भूतेशमीशमाशासितार्थदान् प्रणमाम्यहम् || श्रीमद्भागवतार्थसज्ञहमयं नारायणीयाह्रयं स्तोत्रं हृयमनर्घमुज्ज्वलतरं ध्वस्तान्धकारोदयम् । यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यप्रमुद्भासते तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया । कीर्तन भगवत्कीर्ते संस्कृतावानुषङ्गिकम् | इत्येव प्रयते नास्मद्व्याख्यातृत्वप्रसिद्धये ॥ इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाव्दपारावारपारी- णतया, परमभागवततया च सकलसहृदयमहितयशाः श्रीनारायणकविः परमका- रुणिकतया भक्तानुग्रहाय श्रीभागवतार्थानुसारि नारायणीयाभिधं स्तोत्ररतं चि- कीर्षुः प्रथमं प्रथम श्लोकेन प्रारिप्सितस्य स्तोत्रस्याविनेन परिसमाप्तिप्रचयगमनाभ्यां • श्रोतृजनसैकळसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीला- निदानभूतपरतत्त्वानुस्मरणरूपं मङ्गलमाचरति - www. सान्द्रानन्दावबोधात्मकमनुपमित कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्मास्यमानम् । १. 'णतोऽस्म्य' खः पाठः. ३. 'लहू' ख. पाठ:. ४. 'निखिल' ख. पाठन ३- 'धानं स्तो' ख. पाठः,