पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४४] कृष्णस्य जातकर्मनामकरणवर्णनम् । इत्यादि मातरपितृसुखैस्तदानीं सम्मार्थितस्त्वदवनाय विभो ! त्वमेव ॥ ९ ॥ भ्रूय इति । भूयोऽप्येवंविधसङ्कटेषु गोविन्दो विष्णुरेव नः सुतं परिपाल- यतात् ॥ ९ ॥ बातात्मकं दनुजमेवमयि प्रधून्वन् बातोद्भवान् मम गढ़ान् किमु नो धुनोषि । किं वा करोमि पुनरप्यनिलालयेश ! निश्शेषरोगशमनं मुहुरर्थये त्वाम् ।। १० ।। वातेति । वातात्मकं तृणावर्ते प्रधून्वन् निगृह्णन् हे अनिलालयेश ! तव वातालयस्थत्वे बातनिग्राहकत्वे च सत्यपि मम वातोद्भवान् गदान् किमु नो धुनोषि मत्प्रारब्धकर्मदोषादिति चेत् किं वा करोमि । अपि वा पुनः प्रारब्धावसाने स्थूल- सूक्ष्मदेहद्वयपातेन निःशेषाणां बाह्यानां वातादीनामान्तराणां रागादीनामपि रोगाणां शमनं मोक्षमप्यर्थये प्रार्थयामि ॥ १० ॥ इति तृणावर्तवधवर्णनं त्रयश्चत्वारिंशं दशकम् । अथ श्लोकदशकेन गर्गस्य नामकरणजातकर्माख्याने दर्शयति गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्रतहोरातत्त्वो गर्गमुनिस्त्वद्गृहॉन् विभो ! गतवान् ॥ १ ॥ -- गूढमिति । परमार्थतो निष्क्रियस्यापि मनुष्यदृष्ट्या कर्तव्यान् संस्कारान् नामकरणादीन् हृद्गतहोरातत्त्वः सम्यग् विदितज्योतिश्शास्त्रयाथार्थ्यः ॥ १ ॥ नन्दोऽथ नन्दितात्मा बृन्दिष्टं मानयन्नमुं यमिनाम् । मन्दस्मिताईमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ २ ॥ 1. ' सो क. ग. पाठः, २. 'ई' क. पाठः.