पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये मैक्षन्त हन्त निपतन्तममुष्य वक्ष- स्यक्षीणमेद च भवन्तमलं इसन्तम् ॥ ६ ॥ रोदेति । तदनु निपतन्तमतिस्थविष्ठं स्थूलतरं तृणावर्तस्य देहम् अमुष्य वक्षसि निपतन्तं भवन्तं च प्रेक्षन्त, यतोऽलं हसन्तम् अतोऽक्षीणमेव च शैक्षन्तेत्यर्थः ॥ ६ ॥ ग्रामपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि वृष्टहासम् । आम्नानमम्बुजकरेण भवन्तमेत्य गोपा दधुगिरिवरादिव नीलरत्नम् ॥ ७ ॥ ग्रावेति । ग्रावप्रपातेन पाषाणपृष्ठनिपतनेन परिपिष्टचूर्णीकृतो गरिष्ठो यो देहस्तस्माद् अष्टा असवो यस्य तस्य दुष्टदनुजस्योपरि अम्बुजकरेणानानं मया हतोऽयमिति दिविष्ठान् ग्राहयितुं निघ्नन्तमिव चलितकराम्बुजम् अत एव कपटहासयुक्तं गोपा दधुरुद्धृतवन्तः ॥ ७ ॥ एकैकमा परिगृह्य निकामनन्द- मन्दादिगोपपरिरब्धविचुम्बिताङ्गम् । आदातुकामपरिशतिगोपनारी- इस्ताम्बुजप्रपति प्रणुमो भवन्तम् || ८ || [स्कन्ध:- १० एकैकमिति । एकैकं मृदुकरचरणादिकं परिगृह्य निकाममतिशयेन नन्द- द्भिर्मोदमानैर्नन्दादिभिः परिवार्य युगपत् परिरब्धानि विचुम्बितानि चाज्ञानि यस्य | आदातुकामेति मामादातुकामेयमिति परिशकितानां गोपनारीणां हस्ताम्बुजेषु प्रपतितं हस्तप्रसारणात् पूर्वमेव निपत्य ता आकुलीकुर्वन्तम् ॥ ८ ॥

भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोबिन्द एव परिपालयतात् सुतं नः ।

  • कुर्म इत्यर्थः । 'कृवि हिंसाकरणयोश्च' ।