पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४३] तृणावर्तवधवर्णनम् । तावदिति । विदूरं दूरादेवोपकर्णितेन घोरघोषेण व्याजृम्भिन्या प्रवृद्धया पांसुपटल्या च परिपूरिता दशाशा येन | वाल्या वातसमूहस्तद्वपुस्तृणावर्ताख्यो जनानां मानसहारी त्वं, तं त्वामेव जहार || २ उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालकस्य किमिति त्वदुपान्तमाता माता भवन्तमविलोक्य भृशं रुरोद || ३ || उद्दामेति । उद्दामाभ्यां पांसुतिमिराभ्यामाहतो दृष्टिपातो यस्य | अतः किमपि द्रष्टुमकुशलेऽसमर्थे बालकस्य किं जातमिति ॥ ३ ॥ तावत् स दानववरोऽपि च दीनमूर्ति- भवकभारपरिधारणलूनवेगः | सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः ॥ ४ ॥ ताबदिति । दीनमूर्तिः क्षीणशरीरः | भावत्को भवदीयो भारो गुरुत्वं तस्य परिधारणेन लूनवेगो नष्टगमनवेगः सङ्कोचं निश्चेष्टतामाप | तदनु अनन्तरं क्षता नष्टाः पांसवो घोषश्च यस्मिन् तस्मिन् घोषे जे व्यतायत व्याप्तोऽभूत् ॥ ४ ॥ रोदोपकर्णनवशादुपगम्य गेहूं ऋन्दत्सु नन्दमुखगोषकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यमुमुञ्चति पपात वियत्मदेशात् ॥ ५ ॥ रोदेति । यशोदाया रोदोपकर्णनवशात् तस्या गेहमुपगम्य । कण्ठे बाहुभ्यां बद्धं त्वां मुमुक्षुः | दीनः क्षीणजीवितः ॥ ९ ॥ रोदाकुलास्तदनु गोपगणा बहिष्ट- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।