पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथम् अमुष्य शकटासुरस्य रजोऽपि रजोमात्रतयापि शरीरं नो दृष्टमित्याशङ्कच - आ ज्ञातमित्याह - सइति । स दैत्यः सशरीर एवं त्वयि निलनिवान् ध्रुवं निश्चि- नोमि | रजोऽपि नो दृष्टमतस्तमसः का कथा | रजस्तमोविलये च त्वयि लोन- वान् इत्युक्तियुक्तिमतीत्यर्थः ॥ १० ॥ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ॐ । वजं निजैर्वाल्पर सैर्विमोहयन् मरुत्पुराधीश ! रुजां जहीहि मे ॥ ११ ॥ प्रपूजितैरिति । भविष्यदपायशङ्कया विशेषतो लम्भिताः प्रापिता मङ्गल- रूपा आशिषोऽनुग्रहा यस्य स त्वं मे रुजां रोगं जहीहि त्यज ॥ ११ ॥ इति शकटासुरवधवर्णनं द्विचत्वारिंशं दशकं सैकम् । त्वामेकदा गुरुमरुत्पुरनाथ! वोढुं गांढाधिरूढगरिमाणमपारयन्ती । माता निधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ १ ॥ स्वामिति । त्वां गाढाधिरूढगरिमाणमतिशयेन प्राप्तगुरुत्वं वोढुम अङ्केनो- द्वर्तुमपारयन्त्यशक्नुवती माता यशोदा शयने निधाय किमिदं बतेति निविष्टा शङ्का यस्यां सा त्वां ध्यायन्ती गृहेष्वचेष्टत ॥ १ ॥ तावद् विदूरमुपकर्णितधोरघोष- व्याजृम्भिपांसुपटलीपरिपूरिताशः । वात्यावपुः स किल दैत्यवरस्तुणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ २ ॥ $ 'अच्' (५-४-७५) इति योगविभागाद् अच्प्रत्ययः समासान्तः पद्मनाभवत । आशिष शब्द एव वा स्वार्थाणन्तः समासे घटितः प्रज्ञादेराकृतिगणत्वात् ।