पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकटासुरवधवर्णनम् । कुमारकस्येति । कुमारकस्य पदाम्बुजाभ्यामाहतमनो विपर्यगाद् व्यत्य- स्तावयवमसूद्, मया दृष्टं मयापि दृष्टमिति बालका जगुः ॥ ६ ॥ दशकम् - ४२] d भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । भवत्प्रभावाविदुरै रितीरितं मनागिवाशयत दृष्टपूतनैः ॥ ७ ॥ भियेति । इदं वचोऽतिदुर्घटमत्यन्तानुपपन्नम् । अत्र हेतु: - कुमारकाणां बालानां विशेषतस्तदा मिया किञ्चिदव्यजानतामिति । भवतः प्रभावः शक्तिस्तद- विदुरैस्तदनभिज्ञैः कैश्चिदितीरितमुक्तम् | दृष्टपूतनैनन्दोपनन्दादिभिर्मनागीषत् त्व- प्रभावादिदमित्थमित्याशङ्कयतैव ॥ ७ ॥ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु कसै विरोजितौ । इति प्रसपत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ८ ॥ प्र॒वालेति । पदं क्षतं व्रणितं किं, करौ विरोजितौ भनौ न्विति बदन्त्यः प्रसर्पन्त्या करुणया तत्कार्य सन्ततश्रुधारापनयनप्रवृत्त्या तरङ्गिताश्चलिता अङ्गना गोप्यस्त्वदङ्गं मन्दं मन्दमापस्पृशुः ॥ ८ ॥ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे । इति स्म सद्गृह पिता त्वद मुहुर्मुहुः लष्यति जातकण्टकः ॥ ९ ॥ अये इति । अपायनिश्चये सत्यतथादर्शनादये इत्यतर्कितोपनते । जगत्पते- विष्णोः

कृपातरङ्गपातात् करुणालवप्राप्तेरच परिपात रक्षितं मे सुतं देहीति पिता

नन्दः श्लिष्यति स्म ॥ ९ ॥ अनोनिलीनः किल हन्तुमागतः सुरारिरवं भवता विहिंसितः । रजोऽपि नो दृष्टमसुष्य तत् कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् || अनोनिलीन इति । अनोनिलीनस्तद्रूपः । ननु विहिंसित इत्युक्तं, तत्