पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत इति । भवतैः तव बालकस्य त्राणे रक्षणे यशोदया नियुक्तानां बाल- कानां शकट्रपतनचटचटाशब्दोत्या प्रभीत्या संक्रन्दनस्याक्रन्दनस्य बहुभिः कृत- त्वात् सङ्कुलाखैः प्रवृद्धैरारवैर्विमिश्रं यथा भवति तथा परिस्फुटतां विघटितसृन्धि- बन्धानां दारूणाननोवयवानामारवोऽश्रावि यशोदादिभिः श्रूयते स्म ॥ २ ॥ भवन्तमन्तर्दष्टशुः समन्ततो विविष्यवहारुणदारुमध्यगम् ॥ ३ ॥ तत इति । ततस्ताकर्णरोज प्राग्वत् किमिदमिति सम्भ्रमेण स्वस्त्रगेहान्न- न्द्गेहं प्रति भावनपरिश्रमेण च प्रकम्पिनौ वक्षोभरी यासां ताः अन्तर्भवनान्ते समन्ततः परितो विनिष्पततां दारुणानां गुरुतराणां दारूणामक्षकूवरायनोवयवानां मध्यगं ददृशुः ॥ ३ ॥ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । भवन्तमालोक्य यशोदया घृतं समायसन्नथुजलाईलोचनाः ॥ ४ ॥ शिशोरिति । नन्दादयः प्रधाव्य वेगादागत्य यशोदया धृतमुद्धृतमवलोक्य समाश्वसन् आश्वासं कृतवन्तः ॥ ४ ॥ कस्को नु कौतस्कृत एप विस्मयो विशङ्कटं यच्छकटं विपाठितम् । न कारणं किञ्चिदिहेत ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥५॥ कस्क इति । कस्को नु कौतस्कुतः कः कः कीदृशः कुतैः कुतः कस्मात् कारणादागतः । सम्भ्रमाद् द्विरुक्तिः । विशङ्कटं विस्तृतं विपाटितं केनापि भिन्नाव- यवं कृतम् । इह न किञ्चित् कारणं, यतोऽस्मरणीयैवंविधसामर्थ्यो बालकः । स्व- नासिकादत्तकरा इति विस्मयानुभावः ॥ ५ ॥ कुमारकस्यास्य पयोधरार्थिनः मरोदने लोलपदाम्बुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ! ते पालकवालका जगुः ॥ ६ ॥ १ 'त: स्वबा' खं. ग. पाठ:. २. 'त आगतः कौतस्कृतः, कुतः क' क. पाठः.