पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४२] शकटासुरवधवर्णनम् । अहो कुमारो मयि दत्तदृष्टि: स्मितं कृतं मां मति वत्सकेन । एह्येहि मामित्युपसार्य पाणिं त्वयीश! किं किं न कृतं वषृभिः ॥ ८ ॥ अहो इति । हे ईश ! बिष्णो ! त्वयि गोपबालरूपिणि वधूभिरङ्कारोपणाश्वे- षचुम्बनलालनादि किं किं न कृतम्, अहो भाग्यवत्यस्ता इति भावः ॥ ८ ॥ भवद्रपुःस्पर्शनकौतुकेन करात करं गोपववृजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासी: * ॥ ९ ॥

भवदिति । वधूजनपाणिपरम्पराया अरुणसरोजमालायमानतया तव च तब्यालम्बिप्रतिनवमधुलुब्धलोलम्बदेशीयतया तत्तुलामलासी: कालेलबानसीत्यर्थः ॥ निपाययन्ती स्तनमकगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमा न भेजे स तादृशः पाहि हरे ! गदान्माम् ॥ १० ॥ निपाययन्तीति | यशोदा कतमां कीदृशीं दशां विस्मयौत्सुक्यापायशङ्का- दैवप्रार्थनचैबश्यादिरूपामवस्थां न भेजे प्राप्तवती ।। १० । इति पूतनाशरीरदाहवर्णनं बालकलालनेन यशोदादीनां निरतिशयानन्दवर्णनं च एकचत्वारिंशं दशकम् । कदापि जन्मदिने तव प्रभो! निमन्त्रितज्ञातिवधूमहीसुरा। महानसस्त्वां सविधे निघाय सा महानसादौ वते व्रजेश्वरी ॥ १ ॥ कदापीति | निमन्त्रिता आमन्त्रिता ज्ञातयस्तद्वध्वो महीसुराश्च यया । मह- तोऽनसः शकटस्य । महानसादौ पाकगेहादौ ववृते प्रवृत्ताभूत् ॥ १ ॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्कन्दनसकुलारवैः । विमिश्रमावि भवत्समीपतः परिस्फुटदारुचटचटारवः ॥ २ ॥ अलासीरिति 'ला आदाने' इत्यतो लुङ् ।