पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तस्मात् तच्छरीरादिति, तत्स्तनाधिष्ठानतथा भगवतस्तदङ्गारोहणाञ्च शुद्धसत्त्वम- यतामापन्नात् पूतनाशवशरीरादित्यर्थः । अत एव सत्त्वकार्यत्वाद् धूमस्यागरबा- दिशङ्का || ३ || मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् । इत्युपन् वल्लवतलजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥ ४ ॥ मदिति । मम ब्रह्ममयस्याङ्कारोपणलालन (दौ योऽङ्गसङ्गस्तस्य फलं मुक्तिर्न दूरे जन्मान्तरे, यथा मां हन्तुमिच्छन्त्या अस्याः पिशाच्याः । भवतां मद्योगक्षे- मैकचित्तानां क्षणेन। बल्लवतल्लजेभ्यो भाग्यवत्तया प्रशस्तेभ्यो गोपालकेभ्यः इत्युल्लपन् इति सम्यग् बोधनार्थमेव त्वं पूतनां सुगन्धिमातनुथाः ॥ ४ ॥ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे म्यमाङ्क्षीत् ॥ ५ ॥ चित्रमिति । पुरैव "इह च सन्त्यनिमित्तशतानी'त्यादिनेदं भयं शौरिणा वसु- देवेनाकथि कथितमिति शौरिं प्रशंसन् भवन्मुखालोके रस आनन्दस्तास्मिन् न्यमाङ्क्षीद् निमग्नोऽभूत् ॥ ५ ॥ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । भवन्निवासादाय वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ ६ ॥ दिने दिन इति । जो ब्रजजनः परितः प्रमोदसान्द्र इति स्थिरचराणाम- घ्यानन्दातिशय उक्तः ॥ ६ ॥ गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः । वृत्तेषु कृत्येषु भवन्भिरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ७ ॥ गृहेष्वति । कोमलयो रूपहासयो मिथः कथया सङ्कुलिताः सव्यापाराः । वृत्तेष्ववसितेषु ॥ ७ ॥ १. 'पलोके' क. ख. पाठः २. 'न्स' ख. पाठ..