पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् – ४१] पूतनाशरीरदाहवर्णनम् । भुवनमङ्गल ! नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । त्वमयि वातनिकेतननाथ! मामगदयन् कुरु ताबकसेवकम् ।। १० ।। भुवनेति । अगदयन् नीरोगं कुर्वन् ॥ १० ॥ इति वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णन पूतनामोक्षवर्णनं च चत्वारिंशं दशकम् । १६३ बजेश्वर: शौरिवचो निशम्य समाजमध्वनि भीतचेताः । निष्पिष्ट निश्शेषतरुं निरीक्ष्य कञ्चित् पदार्थ शरणं गतस्त्वाम् ॥ १ ॥ बजेति । शौरिखच 'इह च सन्त्यानिमित्तशतानि' (दश. ४०. श्लो. इति । समाव्रजन् स्वगृहमागच्छन् निप्पिष्टाः पतनजवेन पतिताश्चूर्णीकृताच निश्शेषतरवो गव्यूत्यन्तरस्थमा येन तं पूतनादेहं कञ्चित् पदार्थमतिमहत्त्वाद- दृष्टपूर्वतया च किमिदमिति ज्ञातुमशक्यम् एतादृशसङ्कट भ्रमन् बालकः क्वेति परवशस्त्वद्रक्षणाय त्वामेव शरणं गतः रक्षितृत्वेनाश्रितवान् ॥ १॥ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । त्वत्पातितं धोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकुत्तम् ॥ २॥ निशम्येति । उदन्तं पूतनावृत्तान्तम् । घोररूपदर्शनाद् भयं, त्वया पातितमिति चिस्मयः । अथ विदूरे कुठारैः खण्डशः कृत्वा बहुभिर्दूरं नीत्वा देहुर्मस्मीचक्रुः ॥ २ ॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चरो हि धूमः । शङ्कामधादागरवः किमेष किं चान्दनो गौग्गुलवोsथवेति || ३ || त्वदिति । त्वत्पीतत्वात् पूतं रजस्तमोविलये शुद्धसत्त्वमयः स्तनो यस्मि- १. 'टेऽत्र महाल' क. ख. पाठ