पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[स्कन्धः - १० D नारायणीये सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना व्रजवभूष्विह केयमिति क्षणं विभृतीषु भवन्तमुपाददे ॥ ५॥ सपदीति | हृतमालकचेतना बालघातिनीत्यर्थः ॥ ५॥ ललितभावविलासहतात्मभिर्युवतिभिः प्रतिरोडमपारिता । स्तनमसौ भवनान्तनिषेदुषी प्रदुषी भवते कपटात्मने ॥ ६ ॥ 1 ललितेति । युवतिभिर्गोपीभिः प्रतिरोडुं लङ्घयितुमपारिताशक्या सती भवनान्ते निषेदुषी उपविष्टा प्रददुषी दत्तवती । कपट आत्मा मनो मूर्तिर्वा यस्य ॥ ६ ॥ समधिरु तदमशङ्कितस्त्वमथ बालकलोपनरोषितः । महदिचाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ ७ ॥ समधिरुह्येति । बालकानां लोपनेन मारणेन रोषितः प्रतिचुचूषिथ आमू- लाद् वक्त्रे निवेश्यौष्ठाभ्यामबपीड्य बहुशो निष्ठीवनं कृतवान् ॥ ७ ॥ असुभिरेव समं धयति त्वाय स्तनमसौ स्तनितोपमनिस्वना | निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ ८ ॥ असुभिरिति । असुभिः प्राणैः समं सह धयति पिबति सत्यसौ पूतना स्तनितोपमो मेवध्वनिसदृशो निस्वन आकन्दितं यस्याः सा तथा ॥ ८ ॥ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृहत गोपिकाः ॥ ९ ॥ भयदेति । भयदघोषणस्य भीषणविग्रहस्य च श्रवणेन दर्शनेन च मोहिता बलवा गोपा यत्र ॥ ९ ॥