पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- दशकम् - ४०] वार्षिक करदानाय नन्दस्य मथुराप्रवेशवर्णनम् । तथैव पशुपालकाः किमु न मङ्गलं तेनिरे जगत्रितयमङ्गल ! त्वमिह पाहि मामासयात् ।। १० ।। भवदिति । भवतः कुशलकाम्ययाभ्युदयेच्छया ॥ १० ॥ इति योगमायानयनादिवर्णनम् एकोनचत्वारिंशं दशकम् । तदनु नन्दभमन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । समवलोक्य जगाद भवत्पिता विदितर्कससहायजनोद्यमः ॥ १ ॥ तदन्विति । अमन्दशुभास्पदं लोकोत्तरगुणाकरं नन्दं करदानकृते यदुरा- जाय वार्षिकषष्ठांशदानार्थं गतं मथुरापुरीस्थो भवत्पिता वसुदेवो विदितः कंसस- हायजनानां पूतनातृणावर्तादनामुद्यमः सकलबालहननोत्साहो येन ॥ १ ॥ अयि सखे ! तव बालकजन्म माँ सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्तिां वजनायके समधिरोप्य शशंस तमादरात् ॥ २ ॥ अयीति | वसुदेवो नन्दं प्रति त्वद्नेहस्थो बालो मत्पुत्र इति नोवाच, किन्तु ब्रजनायके नन्दे भवत्पितृतामारोप्य तमादराच्छशंस | स्वपुत्रवत् साव- धानं रक्षितुमेतदिति ज्ञातव्यम् ॥ २ ॥ इह च सन्त्यनिमित्तशतानि ते कटकसीनि ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभियां द्रुतमाययौ ॥ ३ ॥ इहेति | अनिमित्तशतानि दुर्निमित्तानि | कटकसीझि बजे ॥ ३ ॥ नन्दस्य बजागमनात् पूर्व ललितवेषायाः पूतनाया व्रजप्रवेशमाह - • अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरलषद्पदलालितकुन्तला कपटपोतक! ते निकटं गता ।। ४ ।।