पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये. दुणैः पणायिता स्तुता जग्नुषी गतवती भुवि मन्दिराण्येयुषी नृणामनुग्रहाय तत्तत्स्थानाभिमानितया स्थितवती ॥ ६ ॥ प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बबकतनखानचा मानिनः । भवन्निधनकाम्यया जगति बमुनिर्भया: कुमारक विमारकाः किमिव दुष्करं निष्कृषैः ॥ ७ ॥ ततः पशुपमन्दिरे त्वयि मुकुन्द ! नन्दप्रिया- प्रसूतिशयनेशये रुवति किञ्चिदश्चत्पदे । विबुध्य वनिताजनैस्तनयसम्भवे घोषिते मुदा किमु बदाम्यहो सकलमाकुलं गोकुलम् ॥ ८ ॥ प्रग इति । पुनः परेधुः प्रगेडहर्मुखे भूभुजा कंसेन प्रलम्बाद्या अगात्म- जाया देव्या वचनमीरिता उक्ताः ॥ ७ ॥ अहो खलु यशोदया नवकलायचेतोहर भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा | पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ९ ॥ M तत इति । ततः पशुपमन्दिरे नन्दगेहे प्रसूतिशयने शेत इति प्रसूतिशयने- शयस्तस्मिन् किञ्चिदञ्चत्पदे चकिताल्पकमृदुलाङ्घ्रिपल्लवे त्वयि रुवति रुदति सति ॥ ८ ॥ . 6 भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् । अहो इति । यशोदया भवदर्शनस्पर्शनस्तनदानादिना पुण्यवन्तो सुन- योऽपि जिता अधःकृताः खलु अहो ॥ ९ ॥