पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वां धारयन् स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश! मम नाशय रोगवेगान् || १० || शेषेणेति । भूरिभिः फर्णैर्वारितं वारि वर्षबिन्दवो येन तेन शेषेणान-तेन फणामणिदीपितेनात एव स्वैरं प्रदर्शितः पन्था मार्गो यस्य ॥ १० ॥ इति कृष्णावतारवर्णनं कृष्णस्य गोकुलनयनवर्णनं च अष्टात्रिंशं दशकम् | भवन्तमयमुद्हन् यदुकुलोद्हो निस्सरन् ददर्श गगनोचलज्जलभरां कलिन्दात्मजाम् । अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात् प्रपद्मेयतामाययौ ॥ १ ॥ भवन्तमिति | निस्सरन् गच्छन्ं । गगनोच्चलज्जलभरां वीचीजालैगगनतल- बिलभिजलौघपूर्णाम् ॥ १ ॥ मतपशुपालकां निभृतमारुदडालिका- मपातकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद् वहन् कपटकन्यकां स्वपुरमागतो वेगतः || २ || मसुतेति । प्रसुप्ता: पशुपालिका यस्यां निभृतं यशोदासूतिगेहज्ञापनार्थ मन्दं मन्दमारुदती बालिका यस्याम्, अपांवृता विघटिताः कवाटिका यस्यां तां पशुपवाटिकां नन्दगोपगृहमाविशन्नयं वसुदेवो यशोदायाः प्रसवतल्पके भवन्तम- पयन् तत्पदात् तस्मात् स्थानात् ॥ २ ॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव- भटोत्करनिवेदितमसववार्तयैवार्तिमान् ।