पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ३८] - कृष्णस्यै गोकुलनयनवर्णनम् । मात्रा च नेत्रसलिलास्तृतगात्रवलया स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषवालवेषम् ॥ ७ ॥ मात्रेति । प्राचीनजन्मयुगलं प्राग् युवयोः पृश्निसुतपसोः पुत्रतया पृश्नि- गर्भाख्ययाहं जातः, पुनश्चादितिकाश्यपयोर्वामनाख्ययेति प्रतिबोध्य ॥ ७ ॥ त्वत्प्रेरिस्ततदनु नन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः । त्वां हस्तयोरधित चित्तविधार्यमायै- रम्भोरुहस्थकलहंस किशोररम्यम् ॥ ८ ॥ त्वदिति । कंसश्रान्त्यर्थं मां यशोदाशयने न्यस्य तत्सुतां मन्मातुः शयने कुर्विति त्वया प्रेरितः सः आर्मुनिभिश्चित्तेन विधार्य ध्येयम् ॥ ८ ॥ जाता तदा पशुपसद्मनि योगनिद्रा निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात् किमिह चित्रमचेतनैर्यद् द्वार: स्वयं व्यघट सङ्घः सुगाढम् ॥ ९ ॥ जातेति । तदा त्वत्प्रस्थावारम्भे सति योगनिद्रा माया भगवती पशुपस्य नन्दगोपस्य समान यशोदायां जातावतीर्णा सा स्वप्रेरणात् पौरलोकं मधुरापुर- वासिनं जनं निद्राविमुद्रितं निश्चेष्टमकृत | किमिव चित्रमिति | अघटमानघटना- पटीयस्यास्त्वत्प्रेरणाद् द्वारविघटनकरणादि न चित्रमित्यर्थः ॥ ९ ॥ शेषेण भूरिफणवारितवारिणाथ स्वैरं प्रदर्शितपथो माणदीपितेन । १. 'सर्वलो' क. पाठः