पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृष्णावतारवर्णनम् । देवक्या जठरं विवेशिथ विभो ! संस्तूयमानः सुरैः स त्वं कृष्ण! विध्य रोगपटलीं भक्ति परां देहि मे ॥ १० ॥ दशकम् - ३८] प्राप्त इति । देवक्याः सप्तमगर्भतां प्राप्तेऽहिपतावनन्ते मायया रोहिणीं नीते । सञ्चिदिति सच्चिदानन्दैकरसः | हे कृष्ण ! सः देवकीजठरस्थः ॥ १० ॥ इति कृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशं दशकम् । आनन्दरूप! भगवन्नाये! तेऽवतारे प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । कान्तिजैरिव घनाघनमण्डलैद्य- मातृण्वती विरुरुचे किल वर्षवेला ॥ १ ॥ आनन्देति । प्रदीप्तात् प्रकाशोज्ज्वलादू भवदनान्निरीयमाणैर्बहिनिर्ग- च्छद्भिः ॥ १ ॥ आशासु शीतलतरासु पयोदतोयें- राशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायां केशापहस्त्रिजगतां त्वमिहाविरासीः ॥ २ ॥ आशास्विति | आशासितस्याभीष्टार्थस्याप्त्या लाभेन विवशेषु प्रीतिवेंगे- नाविदितेतिकर्तव्यताकेषु । मध्यमायां निशि अर्धरात्रे ॥ २ ॥ वाल्यस्पृशापि वपुषा दधुषा विभूती- रुघत्किरीटकटकाङ्गदहारभासा | शङ्खारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥ ३ ॥ बाल्येति । बाल्यं स्पृशति तेन सम्बध्यत इति बाल्यस्पृक् । विभूतीरीश्व-

  1. 'ह् गतौ' दिवादिः ।