पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० नारायणीये [स्कन्धः -- ९ चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा ध्यायन्तं छितसर्वदोषमवधीः सोऽगात् परं ते पदम् ॥ ८ ॥ लीलेति । लीलया बाहुसहस्रेण वारिते नर्मदाजले चलतः प्लवमानस्य लङ्केशस्य गर्वमपहन्तीति तथा, येन कारागृहं प्रापितो रावणस्तेन श्रीमद्वाडसहस्रेण मुक्तानि बहूनि शस्त्राणि अस्त्राणि च येन तममुं कार्तवीर्य निरुन्धन् निवारयन् अथ त्वाय तत्प्रयुक्ते वैष्णवे चक्रेऽपि विफले जाते त्वां हरिं बुवा श्रीहरिं ध्यायन्तमत एव छितसर्वदोषं नष्टकामक्रोधादिदोषं वृक्णबाहुसहस्रं कृत्वावधीनििहतवान् ॥ ८ ॥ च भूयोऽमर्पितहेहयात्मजगणैस्ताते हते रेणुका- मानानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ध्यानानीतरथायुधस्त्वमकृया विहः क्षत्रियान् दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥ ९ ॥ भूय इति । अमर्पितैर्निजपितृवधमसहमानैर्नष्टशिष्टैर्हेहयात्मजगणैस्त्वद्विही- नमाश्रमं प्राप्तैस्तव ताते जमदग्नौ हते हृदयमानानां सोरस्ताडनं विलपन्तीम् । पूर्व- बद् ध्यानानीतरथायुधो दिक्चत्रेषु ये विद्रुहः क्षत्रियास्तान कुठारयन् कुठारेण निघ्नन् विशिखयन् विशिखैर्निनन् ॥ ९ ॥ तातोज्जीवनकुनृपालककुलं त्रिः सप्तकृत्वो जयन् सन्तयिथ समन्तपञ्चकमहारक्तदोघे पितॄन् । यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात कुमारैर्भवान् ।। १० ।। तातेति | पितुः शिरः कायेन सन्धाय मखैः पितरं जीवयन् काश्यपा- दिष्वृत्विक्षु दिशन् ददत् पुनः साल्वेन युध्यन् कुमारैः सनकादिभिस्तद्वाक्येन श्रीकृष्णोऽनुं निहनिष्यतीति ज्ञात्वा भवान् युद्धाच्छमितोऽभूत् ॥ १० ॥

  • 'प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवन्च' इति णिच् । एवं विशिखयन्निति |