पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परशुरामचरितवर्णनम् । आखेटोपगतोऽर्जुनः सुरगवी सम्प्राप्तसम्पद्गणै- स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः । गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि- माणक्षेपसरोपगोहतचसूचक्रेण वत्सोवृतः ॥ ५ ॥ दशकम् - ३६] - आखेटेति । आखेटोपगतो मृगयाप्रसङ्गेनाश्रमं गतः । सुरगवीसम्प्राप्तैः सुरभिसकाशाल्लब्धैः सम्पद्गणैर्दिव्यैर्भोग्यैः । पुरं माहिष्मती गतः । पुनदुर्मन्त्रिवाचा गां तां सुरभि केतुं स्वीकर्तुम् । कुधिया (तेन सचिचेन ? 1) गवाहरणं रून्यतो सुने - र्जमदने: प्राणक्षेपो वधस्तेन सरोषया गया हतं चमूचक्रं यस्य तेन सचिबेन सुरभेत्सो हृतो माहिष्मती नीतः ॥ ५ ॥ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं विभ्र ध्यातमहोदरोपनिहितं चापं कुठारं शरान् । आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् वाग्भिवेत्समदाशुषि क्षितिपतौ सम्मास्तुथाः सङ्गरम् ॥ ६॥ शुक्रेति । सख्या अकृतनणेन ध्यातेन महोदरेण गिरिशपार्षदेनोपनिहित- मानीतं चापादिचतुष्टयं बिभ्रदारूढश्च सन् क्षितिपतावर्जुने । सम्प्रास्तुथा आर ब्धवान् ॥ ६ ॥ अथ सैन्यनाशे सत्यर्जुनः स्वयमेव श्रीपरशुराममापतदित्याह---- पुत्राणामयुतेन सप्तदशभिश्राक्षौहिणीभिर्महा- सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधनः । सद्यस्त्वत्ककुठारवाणविदलनिश्शेष सैन्योत्करो भीतिमद्रुतनष्टशिष्टतनयस्त्वामापतदेहयः ॥ ७ ॥ लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह- श्रीमद्धाहुसहस्र मुक्तबहुशस्त्रास्त्रं निरुन्धनमुम् ।