पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये अथ श्रीपरशुरामावतारमाह - Atterbury सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । सञ्जातो जमदनितो भृगुकुले त्वं रेणुकायां हरे ! रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्पदम् ॥ २ ॥ - सत्यमिति | अर्जुनस्य वरमन्ते स्वेनैव वधम् । तच्छत्तिरर्जुनस्य शक्तिस्त- न्मात्रेणानतम् ईषच्छमितब्रह्मोपद्रवम् ॥ २ ॥ लब्धाम्नायगणञ्चतुर्दशवया गन्धर्वराजे मना- गासक्तां किल मातरं प्रति पितुः कोषाकुलस्याज्ञया । ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितु- स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद् वर॑म् ॥ ३ ॥ लब्धेति । चतुर्दशवया एव लब्ध अर्थज्ञानपर्यन्तमधीत आम्नायगणो येन गन्धर्वराजे चित्ररथे मनागीषदासक्तामत एव जलानयने सविलम्बां मातरं रेणुकां प्रति इमां जहीति तातस्य जमदमेराज्ञामतिगच्छन्त्यतिक्रामन्तीति तथा तैः सोदरै- ज्येष्ठैः समं सहेमां रेणुकां मातरं छित्वा निगृह्य पुनः शान्तात् प्रसन्नात् पितुः सकाशात् तेषां मातुश्रतॄणां च जीवनयोगं बरमापिथ प्राप्तवान् ॥ ३ ॥ पित्रा मातृमुदे स्तवातवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोगिरा हिमगिरावाराध्य गौरीपतिम् । लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतत्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ४ ॥ पित्रेति । अथानन्तरं पित्रा जमदमिना मातू रेणुकाया मुद्दे प्रीत्यै स्तवना - हृतानता वियद्धेनु: सुरभिर्यस्मिन् तस्मादाश्रमाद् भृगोः पितामहस्य गिरा प्रस्थाय तस्य गौरीपतेः परशुं लब्ध्वा तेन गौरीपतिनोक्तम् । तस्मादेव महास्त्रादिकं प्राप्तः सिंहमुखाद् रक्षितमकृतत्रणमुनिं मित्रं प्राप्य स्वाश्रममगमः ॥ ४ ॥ १. 'रान्' घ, पाठः,