पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- ३६] दत्तात्रेयावतारवर्णनम् । नन्वीश्वरस्यापि यदि शरीरबन्धस्तर्हि संसारित्वप्रसङ्ग इति चेद् नेत्याह- सोऽयं मर्त्यावतारस्तव खल नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या | नो चेत् स्वात्मानुभूतेः कनु तव मनसो विक्रिया चक्रपाणे ! सत्वं सत्रैमूर्ते पवनपुरपते ! व्याधुनु व्याधितापान् ॥ १० ॥ १४७ स इति । तव स्वाधीनमायस्य सः ब्रह्लादिभिरप्यविज्ञातविभवः अयं प्रदर्शितो मत्यवतारः खलु लीलाविग्रहपरिग्रह एव, नेतरवन्मायापरतन्त्रतया संसार इति भावः । तदपि मर्त्यशिक्षार्थम् | किन्तर्ह्यनेन शिक्षितं भवति, तत्राह- एवमिति । कामातिसक्त्या विश्लेशतिः प्रियाविरहदुःखं धर्मातिसक्त्या निरागस्त्य- जनमपि भवति, यथा सीतायाः । अतः कामादावतिसक्तिर्मा भूदिति । तदुपपाद- यति – नो चेदिति । स्वात्मा स्वस्वरूपमेवानुभूतिः प्रकाशो यस्य तस्य स्वप्रकाश- संविद्रपस्य परब्रह्मणस्तव मनसो विक्रिया रागद्वेषमोहादयः क्कनु, न भवत्येवेत्यर्थः । कालात्मकं चक्रं पाणौ स्वाधीनतया स्थितं यस्य तस्य तव संसारापादने कालो न प्रभुः । किन्तु सत्त्वैकमूत्चें! इति । भक्तानुग्रहाय शुद्धसत्त्वमयमूर्त्यङ्गीकार एवाय- मवतार इति भावः | व्याधुनु अपाकुरु ॥ १० ॥ इति श्रीरामचरितवर्णनं पञ्चत्रिंशं दशकम् | अथ दत्तात्रेयावतारमाह- अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो जातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थवरन् कान्तया । दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा- नश्चर्यमुखान प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ १ ॥ अत्रेरिति । दत्तो मयाहमिति भगवतोक्तत्वाद् दत्त इत्यभिधा यस्य स त्वं समाधिनैरन्तर्यविघातकतया शिष्यनिबन्धतन्द्रितमनास्तन्निराकरणाय कान्तया सह मधुमदविवशभावं प्रददर्य स्वस्थ आत्मारामश्चरन् हेहयमहीपालेन श्रीकार्तवी- र्यार्जुनेन ॥ १ ॥ t