पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये मायाक्षोभेड वैभीषणवचनदृतस्तम्भनः कुम्भकर्ण सम्प्राप्त कम्पितोर्वीतलमखिलचमूयक्षिणं व्यक्षिणोस्त्वम् ॥ ६ ॥ गृह्णन् जम्धारिसने सत्कवचौ रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गलततिमवलामभिशुद्धां मगृहन् । देव ! श्रेणीबरोज्जीवितसमर मृतैरतक्षसङ्के- लङ्काभत्र च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ७ ॥ गृह्णन्निति । श्रेणीवरैर्हनुमदादिभिरुज्जीविताः समरमृता येषु ऋक्षसङ्गेषु । देवश्रेणीनां वरैरुज्जीविता इति वा ॥ ७ ॥ भीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी- मैथिल्यां पापवाचा शिव शिव किल तो गर्भिणीमभ्यहासीः । शत्रुघ्नेनायित्वालवणनिशिचरं प्रादयः शूद्रपाशं तावद् वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ ८ ॥ प्रीत इति । अर्दयित्वा घातयित्वा स्वयमेव शूद्रपाशं कुत्सितं शूद्रमुनिं प्रायः ॥ ८ ॥ - वाल्मीकेस्त्वत्सुतोगापितमधुरकृतेराज्ञया यज्ञवाटे सीतां स्वय्यानुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभू: । हेतोः सौमित्रिघाती स्वयमथ सरयूमननिश्शेषभृत्यै: साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यम् ॥ ९ ॥ वाल्मीकेरिति । त्वत्सुताभ्यां कुशलवाभ्यामुतापिता मधुरा कृती रामा- यणं काव्यं येन स तथा । कालार्थितो यमधर्मराजेन स्वर्गारोहणाय याचितोऽभूः । हेतोः सौमित्रिघातीति । अयमर्थः -- रहस्संवादिनोरावयोईष्टारं त्य(क्ष्ये?क्ष्यामि ) इति धर्मराजस्य पुरतः कृतप्रतिज्ञो रामस्तदन्तरा प्राप्तं सौमित्रिं प्रतिज्ञाभङ्गभयात् तत्याजेति । अथ स्वयं निश्शेषैर्देवांशः पौरैश्च साकं नाकं स्वर्ग ततश्च निजपदं चैकुण्ठम् । आद्यं ब्रह्माण्डोत्पत्तेः प्रागपि विद्यमानम् ॥ ९ ॥

  • युष्यन्नित्लनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् ।