पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ३३] - अम्बरीषचरितवर्णनम् । धावनशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् | कः कालचक्रमतिलङ्घयतीत्ययास्त: शर्वे ययौ स च भवन्तमवन्दतैव ॥ ७ ॥ धानिति । स विश्वत्र सर्वत्रापि ते चक्रं पश्यन् विरिश्चं शरणं गतवान् । कः कालचक्रमतिलङ्घयतीति तद्वचनादपास्तः प्रतिनिवृत्तः शर्वे शिवं प्राप्तवान् | यस्य चक्रमिदं, तमेव हरिं शरणं व्रजेत्यभिप्रायेण स भवन्तमवन्दतैव ॥ ७ ॥ भूयो भवनिलयमेत्य मुनिं नमन्तं प्रोचे भवानहपृषे ! ननु भक्तदासः । ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेति भूमन् ! ॥ ८ ॥ भूय इति । भवन्निलयं बैकुण्ठम् | अहं भक्तानां दास इव, तदधीनत्वात् । नन्वहमपि ज्ञानतपोनिष्ठत्वात् त्वद्भक्त एव | सत्यम् | ज्ञानं तपश्च यदि विनयेनो- पशमेन युक्तं भवति, तर्हेव मान्यं निःश्रेयसाय भवति । दुर्बिनीतस्यैतद् द्वयमपि न सुखाय, यथा भवतः । तदम्बरीषस्य पदं पाढावेच शरणं भज व्रज ॥ ८ ॥ तावत् समेत्य मुनिना स गृहीतपादो राजापसृत्य भवदमसाव (नौषी नावी)त् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ९ ॥ तावदिति । सोऽम्बरीषः पादस्पर्शलज़या अपसृत्य भवदस्त्रं सुदर्शनमनौ- षीत् तुष्टाव । चक्रे गते शान्ते सति आगसि कृत्योत्पादनापराधे कृतेऽपि स्ववि- षयामम्बरीषस्य कृपां शंसन् स्तुवन् अस्मा आशिषो वरान् ॥ ९ ॥ राजा प्रतीक्ष्य मुनिसेकसमामनाश्वान् सम्भोज्य साधु तमृषि विसृजन् प्रसन्नम् ।