पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये स इति । अथो अनन्तरं सोऽम्बरीषो भवदर्चनार्थं वर्ष संवत्सरं द्वादशीव्रतं दधौ | यमुनोपकण्ठे यमुनाया उपकण्ठे तीरे सुमनसा भक्तियुक्तया महती सर्वो- पहारमहाभिषेकयुक्तां पूजां वितन्यन् | विसृजन् ददत् ॥ ३ ॥ तत्राथ पारणदिले अनदर्चनान्ते दुर्वाना भवनं प्रपेदे । भोक्तुं वृतश्च स नृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमान् विधास्यन् ॥ ४ ॥ तत्रेति । भवहर्चनस्यान्तेऽवसाने । पारणदिन इत्यवसान दिने विप्रान् भोजयित्वा स्वयं भोक्तुकामे सतीत्यर्थः । श्रीदुर्वाससा मुनिनास्य भवनं प्रपेदे प्रापद्यत । परार्तिशील: परपीडानिरतः | अतः पारणकालातिक्रम एवं नियमान् विधायागमिष्यामीति मन्दं जगाम ॥ ४ ॥ राज्ञस्तत्सङ्कटमाह राज्ञाथ पारणमुहूर्तसमाप्तिखेदाद् वारैव पारणमकारि भवत्परेण । मातो मुनिस्तदथ दिव्यदशा विजानन् क्षिप्य धोतो विततान कृत्याम् ॥ ५ ॥ राज्ञेति । पारणमुहूर्तस्य समाप्तिर्भविष्यति प्रतिपालने, अप्रतिपालने च मुनिकोप: स्यादिति खेदादू वारा जलेनैव पारणमकारि । तत् पारणं विजानन् क्षिप्यन् बह्वाक्षेपवादान् कुर्वन् क्रुधोवृतजटः जटया कृत्यां विततान ॥ ५॥