पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमस्कन्धपरिच्छेदः । वर्णिते रामचरिते किमन्यैश्चरितैरिति । तत्प्रधानेशानुकथा लक्ष्यते नवमोदिता ॥ अथाम्बरीषचरितमुपक्रमते-- वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीषः । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सnिg त्वयि च मनाः सदैव ॥ १ ॥ वैवस्वतेति । ब्रह्मणः पुत्रो मरीचिः, तत्पुत्रः काश्यपः, तत्पुत्रो विवस्वान्, तत्पुत्रः श्राद्धदेवोऽयं चैवस्वताख्यमनुः, तत्पुत्रो नभागः, तत्पुत्रो नाभागः, तस्य पुत्रोऽम्बरीषः, स सप्तार्णवातायाः सप्तद्रीपवत्या दयितः सार्वभौमोऽपि त्वयि ईश्वरे त्वत्सशिषु त्वद्भक्तेषु च रेमे ॥ १ ॥ त्वत्मीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देव ! नचिराद्भृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थी चक्रं भवान् प्रविततार सहस्रधारम् ॥ २ ॥ त्वदिति । सकलं लौकिकं वैदिकं च कर्म त्वत्प्रीतये वितन्वतः कुर्वतोऽस्य भक्त्यैव त्वं नचिरादल्पेन कालेन प्रसादमभृथाः, येन प्रसादेनाम्याभिरक्षणार्थ शत्रु निवारणार्थं भवान् चक्रं सुदर्शनं प्रविततार दत्तवान् ॥ २ ॥ स द्वादशीव्रतमथो भवदर्चनार्थ वर्षद मधुवने यमुनोपकण्ठे । पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन पशुषष्टिकोटिम् || ३ || ' परेषु च' ग. पाठ: