पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणी ये आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् । संस्तूयमानो वरेण तेन ज्ञानं परं चोपदिशनचारीः ॥ ८ ॥ १३८ आकृष्टेति । मुनिमण्डलाय सत्यवत सप्तर्षिभ्यः | ज्ञानं परं च शास्त्रज्ञानं ब्रह्मज्ञानं च ॥ ८ ॥ [स्कन्ध: - ८ कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिप॑ तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवभिडतोऽभूः ॥ ९ ॥ कल्पेति । वैवस्वताख्यमिदानीन्तनम् ॥ ९ ॥ स्वक्षसं तं निपात्य दैत्यं निगमान ग्रहत्विा । विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते ! प्रपायाः ॥ १० ॥ स्वेति | विरिञ्चये ब्रह्मणे ॥ १० ॥ ७१ ॥ इति मत्स्यावतारवर्णन द्वात्रिंशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायाम् अष्ट्रगस्कन्धपरिच्छेदः । आदितः श्लोकसङ्ख्या ३३४.