पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ३०] वाम नचरितवर्णनम् । मात्रेण भाविमहिमोचितगौरवं माग् व्यावृण्वतेव धरणीं चलयन्नवासीः । छत्रं परोप्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विव सन्निधातुम् ॥ ७ ॥ गात्रेणेति | भाविमहिमा विश्वरूपं, तदुचितं गौरवं प्रागेव धरणीचलनेन व्यावृण्वता प्रकाशयता । परेषां दैत्यानामूप्मणः पराक्रमस्य तिरणार्थं वारणार्थम् । सन्निधातुं दण्डयितुम् ॥ ७ ॥ तां नर्मदोत्तरतटे हयमेधशाला- मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । भास्वान् किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रसुखैः शशङ्गे ॥ ८ ॥ तामिति । आसेदुषि प्राप्तवति ॥ ८ ॥ आनीतमाशु भृगुभिर्महसाभिभूत- स्त्वां रम्यरूपमसुर: पुलकावृताङ्गः । भक्त्या समेत्य सुकृती परिषिच्य पादों तत्तोयमन्वधूत मूर्धनि तीर्थतीर्थम् ॥ ९ ॥ १३३ आनीतमिति । त्वन्महाभिभूत [ष्टतेजस्कैभृंगुभिः शुक्रेणानीतं प्रतिगृह्य बलिनिकटं नीतम् । असुरो बलिः | तीर्थतीर्थं सर्वशोधकम् ॥ ९ ॥ महादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो ! गुरुपुरालय ! पालयेथाः ॥ १० ॥ महादेव । भक्तोत्तंसप्रह्लादवंशजतया नु, क्रतुभिर्नु, द्विजेषु विश्वासतः सत्सङ्गानु, समस्तैरेतैर्नु (न) निश्चितं, बलिर्दितिजोऽपि तदिदं पादोदकस्य मूर्ध्नि