पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः -- ८ तस्येति । तस्य पयोव्रतस्यावधावन्ते । प्रलपन् त्वं भर्तर्येवंरूपं मां भाव- यन्ती भर्तारमुपतिष्ठेत्यादि कथयन् अयासी: तिरोभूः ॥ ३ ॥ त्वं काश्यपे तपसि सन्निवत् तदानीं प्राप्तोऽसि गर्भयदितेः अशुतो विधात्रा | प्रामृत च प्रकट वैष्णव दिव्यरूप सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ४ ॥ स्वमिति | काश्यपे काश्यनसम्बन्धिान तपस तपःसम्भृते वीर्ये सन्निधत् प्रविष्टः । प्रकटवैष्णवदिव्यरूपं शङ्खचक्रगदपद्मकिरीटमकुट मकरकुण्डल श्रीवत्स- कौस्तुभवनमालापीतवसनकाच्चीनपुराचुपलक्षितम् ॥ ४ ॥ पुण्याश्रमं तमभिवर्षति पुष्पवर्षे ईर्पाकुले सुरकुले कृततूर्यघोषे । वड्वाञ्जलिं जय जयेति तुतः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ ५ ॥ पुण्येति । तत्क्षण एवं वटुरूपम् ॥ १ ॥ तावत् प्रजापतिमुखैरुपनीय मौञ्जी- दण्डाजिनाक्षवलयादिभिरर्च्यमानः | देदीप्यमानवपुरीश! कृताग्निकार्य- स्त्वं मास्थिया वलिगृह प्रकृताश्वमेधम् ॥ ६ ॥ तावदिति । प्रजापतिमुखैऋषिभिरुपनीय उपनयनाख्यं कर्म कृत्वा तैर्मों- ज्यादिभिरर्च्यमान इति । सविता तस्य गायत्री मुपदिदेश | बृहस्पतिर्यज्ञोपवीतं, पिता मौजीं, भूमिः कृष्णाजिनं, सोमो दण्डम्, अदितिः कौपीनं, चौरछत्रं, ब्रह्मा कमण्डलु, सप्तर्षयो दर्भान्, सरस्वत्यक्षमालां च ददौ । एवं देदीप्यमानमतिशयेन शोभमानं वपुर्यस्य, कृतामिकार्योऽनुष्ठितसमिदाधानकर्मा प्रकृताश्वमेधं प्रारब्धाश्व- मेधयागं बलिगृह बलेर्यज्ञशालां प्रास्थिवाः प्रस्थितवान् ॥ ६ ॥ १. 'रं' क. पाठः, २. व पद्धतमं बटुरूपम् आधा: (दधौ ?)' क. पाठः,