पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्ध:- वत्त इति । त्वत्तः सुधाहरणस्य योग्यं फलं व्यर्थपरिश्रमं परेषु दैत्येषु | ते दैत्याः सुरैर्व्यगृह्णन् कलहं चक्रुः ॥ ६ ॥ १३० त्वं कालनेमिमथ मालिखाञ्जघन्थ शक्रो जघान बलिजम्भवलान् सपाकान् । शुष्काईदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं तम् ॥ ७ ॥ समिति । शुष्केणार्द्रेण च दुष्करवधो नमुचिस्तस्मिन् उभयात्मकेन फेनेन लूने छिन्नशिरस्के ब्रह्मणा प्रेषितस्य नारदस्य गिरा त्वं रणं न्यरुणः ॥ ७ ॥ योषात्र पुर्दनुजमोहनमाहितं ते श्रुखा बिलोकनकुतूहलवान् महेश: । भूतैः समं गिरिजया च गतः पदं ते स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः || ८ || योषेति । ते योषाबपुः स्त्रीरूपमाहितं कृतं श्रुत्वा ते पदं वैकुण्ठम् । अभि- मतं योषिद्वपदर्शनम् । अथो प्रार्थनानन्तरम् ॥ ८ ॥ आरामसीमनि च कन्दुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् । खामेष वीक्ष्य विगलद्वसनां मनोभू- वेगादनगरिपुरङ्ग ! समालिलिङ्ग ॥ ९ ॥ आरामेति । विगलद्वसनां मारुतहृतदुकूलाम् । यद्यप्यनङ्गरिपुरयं, तथापि मनोभूवेगात् त्वां समालिलिङ्ग ॥ ९ ॥ भूयोऽपिं विद्रुतवतीमुपधाव्य देवो वीर्यप्रयोक्षविकसत्परमार्थबोधः । सन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ! ।। १० ।।