पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् | त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्टया परिपुष्टमास विश्वम् ॥ ८ ॥ उरसेति । त्वं च तरसैनामुरसा ममानिथ स्वोरसि निवासमकरोः । नान्यस्मिन् भावोऽनुरागो यस्याः सानन्यभावा । त्वदुरसि विलसन्त्यास्तस्या ईक्ष- णश्रियः सकरुणकटाक्षशोभायाः परिवृथा विश्वं परिपुष्टं सकलसम्पत्समृद्धम् आस अभूत् ॥ ८ ॥ अथ वारुणी देव्युदभूदिसाह - अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ ९ ॥ अतीति । तमसोऽज्ञानस्य पदवीं हेतुभूतां वारुणीम् ॥ ९ ॥ अथ धन्वन्तर्यवतारमाह- तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । अमृतं कलशे वहन कराभ्यामखिलार्ति हर मारुतालयेश ! ॥ १० ॥ इत्यमृतमथनवर्णनम् अष्टाविंशं दशकम् । उद्भच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव ! भवत्प्रभावा- दुद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ १ ॥ उद्रच्छत इति । उद्गच्छतः प्रादुर्भवतः । अशरणाननन्यशरणान् | भवतः प्रभाव: शक्तिर्माया तस्मादुद्यन् सयूथ्यकलहोऽन्योन्यविवादो येषां ते ॥ १ ॥ श्यामां रुचापि वयसापि तनुं तदानीं प्राप्तोऽसि तुझकुचमण्डलभङ्गुरुं लम् । पीयूषकुम्भकलहं] परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वंदुरोजकुम्भे ॥ २ ॥ श्यामामिति । वयसापि श्यामां यौवनमध्यस्थाम् । भङ्गुरां नमाम् । त्वदुरो- जकुम्भे पीयूषादप्यतिमधुरे ॥ २ ॥ १. 'परिय' घ. पाठ:.