पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - २८] अमृतमधनवर्णनम् । जगदीश ! भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोल: सकलोऽपि स्पृहयाम्बभूव लोकः ॥ ३ ॥ जगदिति । भवान् परः प्रधानो यस्याः सा भवत्परा ॥ ३ ॥ त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीटिकां व्यतारीत् । सकलोपहुताभिषेचनीयैर्ऋषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ ४ ॥ 1 वयीति | त्वयि दत्तं समर्पितं हृद् यया सा तथा तस्यै दत्तहृदे | यदैव- भवगता, तदैव सकलैः सरिद्भूम्यादिभिरुपहृतैरभिषेचनीयैरभिषेकसाधनैरोषधीकु- म्भपवित्रादिभिर्ऋषयस्तां महालक्ष्मी श्रुतिगीर्भिर्मन्त्रैरभ्यषिञ्चन् ॥ ४ ॥ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गम् । मणिकुण्डलपीतचेलहारममुखैस्ताममरादयोऽन्वभूषन् ॥ ५ ॥ अभिषेकेति । अभिषेकजलपातसमनन्तरं पतितुं शीलं येषां तैर्मुग्धैस्त्वद- पारेवावभूषिता अङ्गवल्ली यस्यास्ताम् | अमरादयो मणिकुण्डलपीतचेलहारप्रमुखै- रन्वभूषन् + अलञ्चक्रुः ॥ ५ ॥ वरणस्रुजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना | पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रीलविलासमाससाद ॥ ६ ॥ वरणेति । वरणस्रजं स्वयंवरमालाम् || ६ || गिरिशद्वहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्बे निहिता त्वय्यनयापि दिव्यमाला ॥ ७ ॥ गिरिशेति । अविमुक्तदोषलेशान् कामक्रोधादिषड्दोषयुक्तान् अवमृश्य विचार्य सदैव सर्वैर्गुणैर्दोषरहितै रम्ये त्वयि तवांसदेशेऽनया श्रिया दिव्यमाला निहिता ७ ॥ + 'भूष अलकारे' भौवादिकः ।