पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गजेन्द्रमोक्षवर्णनम् । हूहूस्तावद् देवलस्यापि शापाद् ग्राही भूततज्जले वर्तमानः । जग्रानं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ ५ ॥ दशकम् - २६] -- हूहूरिति 1 तावत् तस्मिन् काल एव हूहूर्नाम गन्धर्वोऽपि देवलस्यर्षेः शापाद् ग्राहीभूतो ग्राहतां प्राप्तः । ननु गजेन्द्रश्चेद् भक्तः कथं ग्राहादभिभव इति नाशङ्कनीयमित्याह–शान्त्यर्थमिति | हि यस्माच्छान्त्यर्थं विषयविरक्त्यर्थं स्वकानां भक्तानां श्रान्तिदोऽसि पीडाकरो भवसि ॥ ५ ॥ खत्सेवाया वैभवाद् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् | माप्ते काले खत्पदैकाग्रसिद्धयै नकाक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ ६ ॥ त्वदिति । प्राप्ते काले प्रारब्धेऽवसिते त्वत्पदयोरैकाग्र्यं समाधिस्तस्य सिद्ध्यै प्राप्तये | अथवा प्राग्जन्माभ्यस्तस्य त्वत्पदैकाग्र्यस्य सिद्धिः फलं मोक्षस्त प्राप्तये ॥ ६ ॥ आतिंव्यक्तमाक्तनज्ञानभक्तिः शुण्डोत्तैः पुण्डरीकैः समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्र श्रेष्ठं सोऽन्वगादीत् परात्मन् ॥ ॥ ७ ॥ आर्तीति । आर्त्या नक्राकान्तिजन्यया पीडया व्यक्ते प्राक्तने जन्मान्तरा- भ्यस्ते ज्ञानभक्ती यस्य । निर्विशेषात्मनिष्ठं निर्गुणब्रह्मविषयम् ॥ ७ ॥ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्ना हमित्यमयाते | सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्थ्याख्दः प्रेक्षितोऽभूः पुरस्तात् || ८ || श्रुत्वेति । ब्रह्मेशाद्यैर्ब्रह्माहमीशोऽहमित्यभिमानिभिर्नाहमनेन स्तुतः, यतो ब्रह्मनिष्ठं स्तोत्रमस्येत्यप्रयाते सति त्वं पुरस्तात् प्रेक्षितः प्रादुर्भूतोऽभूः । ननु विष्णु- रपि विष्णुरहमित्यभिमान्येव, नेत्याह – सर्वात्मेति । ब्रह्मादीनामप्यात्मान्तर्यामी त्वम् ॥ ८ ॥ अथ गजेन्द्रमोक्षमाह - हस्तीन्द्रं तं हस्तपद्येन धृत्वा चक्रेण त्वं नक्रवर्य व्यदारी: । गन्धर्वेऽस्मिन मुक्तचापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ ९ ॥