पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाष्टमस्कन्धपरिच्छेदः । मन्वन्तराख्यः सद्धर्मो मन्त्रादिप्रतिबोधितः । कक्ष्यतेऽष्टम निर्दिष्टो हरिलीलोपबृंहितः || अथापदि श्रीह्रौ मनोनिवेशन धर्मसारांशभूतमिति गजेन्द्रदृष्टान्तेन दर्शयि- ध्यन् अस्य प्राग्जन्मकथामाह द्वाभ्याम् - इन्द्रधुम्नः पाण्डयखण्डाघिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । वत्सेवायां मगधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ १ ॥ इन्द्रेति । पाण्ड्यखण्डो भारतखण्डदक्षिणभागः ॥ १ ॥ कुम्भोद्भूतः सम्भृतक्रोधभार: स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्स्वाथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं वत्स्मृतिव्यक्तिधन्यम् ॥२॥ कुम्भोद्भूत इति । हस्तिभूयं हस्तित्वम् । प्रत्यगात् प्रतिनिवृत्तः । त्वत्स्मृतेः प्रारजन्माभ्यस्ताया व्यक्तिः प्रकाशस्तेन धन्यं पुरुषार्थप्रदम् || २ || दुग्धाम्भोधेमध्यभाजि त्रिकूटे क्रीडले यूथपोऽयं वशाभिः । सर्वान् जन्तूनत्यवर्तिष्ट शक्तचा खद्भक्तानां कुत्र नोत्कर्षलाभः ॥ ३ ॥ दुग्धेति । त्वद्भक्तानां कुत्र केषु योनिषु नोत्कर्षलामः, यद् गजस्वेऽपि सर्वजन्तूनयवर्तिष्ट अतिशयितवान् ॥ ३ ॥ स्वेन स्थेना दिव्यदेहत्वशक्तचा सोऽयं खेदानप्रजानन् कदाचित् । शैलमान्ते वर्मतान्तः सरस्यां यूथैः सार्धे खत्मणुन्नोऽभिरेमे ॥ ४ ॥ स्वेनेति । स्वेनानन्यसाधारणेन स्थेना बलेन बलाधिकेतरसत्वसमुद्भूतान् खेदान् पीडाः | घर्मतान्तः ग्रीष्मकालोद्भूतेनोष्मणा क्लान्तः । शैलप्रान्ले पर्वतनि- तम्बवर्तिनि ऋतुमन्नाम्न्युद्याने सरस्यां त्वत्प्रणुन्नो निजपदं प्रापयिष्यतेश्वरेण प्रेरितः ॥ ४ ॥