पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दचरितवर्णनम् । तावदिति । तावत् तस्मिन् काल एव मध्येसभमुषितं त्वामभ्येतुं कोऽपि न शशाक । कोऽपि ब्रह्मापीति वा । तत्र हेतवः मांसवपाभ्यां करालं वपुर्यस्य तम् । ततश्च सर्वे प्रत्येकमस्तोषत तुष्टुवुः ॥ ८ ॥ - दशकम् - २५] भूयोऽध्यक्षतरोषधानि भवति ब्रह्माज्ञया बालके महादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शान्तस्त्वं करमस्य मूर्ध्नि समयाः स्तोत्रैरथोद्गायत- स्तस्याकामधियोsपि तेनिथ वरं लोकाय चानुग्रहम् ॥ ९ ॥ भूय इति । भूयोऽपि ब्रह्माद्यैः संस्तुतोऽप्यक्षतरोषधाम्नि अन्यूनकोपभाजि भवति सति महादे तव पदयोर्नमति सति तद्वात्सल्येन शान्तस्त्यक्तरोषस्त्वमस्य मूर्ध्नि करं समधाः । अकामधियोsयस्य दैत्याधिपत्यं लोकानुग्रहरूपं वरं तेनिथ तदौदासीन्येऽपि स्वयं चकर्थ ॥ ९ ॥ ननु किमेवं क्रूरस्वभावो हरिः, न, यथा नढो रौद्ररसमभिनयति तद्वदित्याह- एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिष- श्रुत्यन्तस्फुटगीत सर्वमहिमन्नत्यन्तशुद्धाकृते! । तत्तादृनिखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् महादप्रिय ! हे मरुत्पुरपते! सर्वामयात् पाहि माम् ||१०|| एवमिति । अत्र प्रमाणमाइ --श्रीतापनीयेति । श्रीतापनीयोपनिषत्प्रति- पादितैवंविधसकलमहत्त्व ! अत्यन्तशुद्धा सच्चिदानन्दरूपा आकृतिः स्वरूपं यस्य | तत्तादृशमनुपमं निखिलोत्तरं सर्वोत्कृष्टं त्वां कः परो लङ्घयेत् त्वत्स्वरूपभूतत्वत्पा- र्षदादन्यः को वा त्वदप्रियमाचरेदित्यर्थः । हे प्रह्लादप्रिय! भक्तवत्सल ! ॥ १० ॥२०॥ इति प्रह्लादचरितवर्णनं पञ्चाशं दशकम् | इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां सप्तमस्कन्धपरिच्छेदः । आदितः श्लोकसङ्ख्या २६३.