पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये थानन्तरं विचित्रश्रमान् व्यायाममार्गेषु दक्षिणसव्यसञ्चारणभेदेषु शिक्षाविशेषान् व्यावृण्वन् प्रकाशयन् भुवनप्रासोद्यतं ब्रह्माण्डकवलीकरणसमर्थ त्वामापपाता- ससाद ॥ ५ ॥ भ्राम्यन्तं दितिजाघमं पुनरपि प्रोद्गृह्य दोर्भ्यो जवाद् द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि । निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ६ ॥ www भ्राम्यन्तमिति । अन्तर्बहिश्च हन्तुमशक्यत्वाद् द्वारे | जले स्थले चाश- यत्वावगे दितिजाधमं निपात्यायु वैर्हन्तुमशक्यत्वान्नखरान् वक्षोभुवि व्यु- रखाय निर्भिन्दन् विदारयन् अधिगर्भ वक्षोन्तर्भागे निर्भरगताम्बु सिरामुखतः सन्ततनिःष्यन्दमानं रुधिराम्बु | बद्धोत्सवं यथा भवति तथा । बहून् जगत्संहारिणो ब्रह्माण्डकटाहभेदकान् सिंहारवानुदैरयः प्रायुङ्क्थाः || ६ ॥ त्यक्त्वा तं इतमाशुं रक्तलहरीसिक्तोन्नमवर्ष्माणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि | भ्राम्यभूमि विकम्पिताम्बुधिकुलं व्यालोलटोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ ७ ॥ त्यक्त्वेति । रक्तलहरीसिक्तोन्नमद्वर्ष्माणि रुधिरखाबाक्तोन्नतकाये त्वयि हतं तं त्यक्त्वा प्रत्युत्पत्य तदनुगसमस्तदैत्यसमूहांश्चास्खाद्यमाने भक्षयति च सति चराचरं दुःस्थामनवस्थितस्वस्थाननिवेशामवस्थां दधौ | तदेवाह - भ्राम्यन्ती भूमि- र्यस्मिन् । बिकम्पितमम्बुधिकुलं यस्मिन् । व्यालोलशैलोत्करं कन्दुकायमानक्कुला- चलनिकरम् | प्रोत्सर्पत्खचरं केसरोत्क्षिप्तज्योतिर्गणम् ॥ ७॥

तावन्म[सवपाकरालवपुषे घोरान्त्रमालाघरं त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्बारवम् । अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिता भीरखः सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येक मस्तोषत ॥ ८॥ १. 'कोपमु' ख. पाठः