पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - २५] - प्रह्लादचरितवर्णनम् । तद्रूपमेत्र वर्णयति— तप्तस्वर्णसवर्णधूर्णदतिरुक्षाक्षं सटाकेसर- मोत्कम्पमनिकुम्विताम्बरमहो जीयात् तवेदं वपुः | व्यात्तव्याप्तमहादरीसखमुख खड्गोग्रवल्गन्महा- जिहानिर्गमदृश्यमानसुमहादंडायुगोड्डामरम् || ३ || 3 तप्तेति । तप्तस्वर्णसवर्णे विलीनावस्थितपुरटसदृशे घूर्णती भ्रमिते अतिरू- क्षे अक्षिणी यस्मिन् सटाकेसरप्रोत्फम्पप्रनि कुम्विताम्बरं प्रचलितस्कन्घरोमाञ्चला- च्छादितगगनतलं, व्यात्तं विवृतं व्याप्तमहादरीसखं विस्तृतमहागुहासदृशं मुखं य स्मिन्, खजवदुग्राया वल्गन्त्याश्चलिताया महाजिह्वाया बहिर्निर्गमे दृश्यमानेन सुमहता दंष्ट्रायुगेनोड्डामरमतिभीषणं तदिदं ते वपुर्जीयात् सर्वोत्कृष्टतया प्रका शताम् ॥ ३ ॥ उत्सर्पद्वलिभङ्गभीषणहनु हस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतो तनखकुरांशुदूरोल्यणम् | व्योमोल्लङ्गिपनापनोपमघनमध्याननिर्धावित- स्पर्धामकरं नमामि अवतस्तारसिंहं वपुः ॥ ४ ॥ - उत्सर्पदिति । भवतस्तन्नारसिंह वपुर्नमामि । कीदृशम् उत्सर्यद्भिरट्टहासवि जृम्भणादिधूपर्युपरि गच्छद्भिर्वलिभङ्गैर्भीषणौ हनुप्रदेशौ यस्मिन्, ह्रस्वा स्थवीयस्तरा अतिशयेन स्थूला ग्रीवा यस्मिन्, पीवराणां दोष्णां शतादुगतानां नखानां कुरै- रंशुभिरोल्वणमतिशयेन भयङ्करं, सजलजलघरध्वानबदतिमीषण सिंहनादै विद्रावि- तवैरिनिकरम् || ४ || नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्भदाभीषणं दैत्येन्द्रं समुपाद्रवन्तमष्टया दोर्भ्यां पृथुभ्याममुम् | वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान् व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ ५ ॥ नूनमिति । कपटवेषभृद् विष्णुरेवार्य नूनं तर्कयामि, अमुं भ्रातृहणं निहन्मीति निश्चित्य | अघृथास्त्वमग्रीः । कराभ्यां निर्गलितो बीरो वीरम्भन्यो-