पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः-७ अतः पश्चात् अरे इति । सकलं जगद् आत्मा स्वरूपं यस्यासौ हरिः केति दुर्घटत्वेन कोपावेशेन न्वासकृदुच्चरन्नेव स्तम्भं प्रभिन्ते स्म ताडितवान् स्तम्भमभञ्जनानन्तरं तत्र कि जातमिति न हि सहसा वक्तुमीशोऽस्मि | कृपायुक्त आत्मा यस्य, हे कृपात्मन् ! भक्तवत्सल ! विश्वात्मन् ! स्पष्टविश्वात्मतत्त्व ! हे विष्णो ! जगध्यापनशील ! हे पवनपुरवासिन् ! मां मृडय सुर्खय ॥ १० ॥ इति प्रह्लादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनं चतुर्विंशं दशकम् | स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णो समाचूर्णय- आघूर्णज्जगदण्डकुण्डकुहरो घोरस्तवासूद रवः | त्वयं किल दैत्यराजदये पूर्व कदाप्यत कम्पः कश्चन सम्पपात चलितोऽप्यम्भोजभूर्विष्टात् ॥ १ ॥ - स्तम्भ इति । एवं स्तम्भभजनानन्तरं प्रादुर्भवतस्तव घोरो रवः सिंह- नादोऽभूत् । घोरत्वमेवाह – बढयतो निघ्नतः । आघूर्णज्जगदण्डकुण्डकुहरः सम्भ्रान्तब्रह्माण्ड कटाहान्तर्गतचराचरः । पूर्वे कदाप्यश्रुतं यं श्रुत्वा दैत्यस्य हिर- ण्यकशिपोर्हृदये कश्चनानिर्देश्यरूप: कम्पः सम्पपात | अपिच अम्भोजभूरपि विष्टपात् सत्यलोकाचलितः किमिदमकाण्डे कल्पापाय इति सम्भ्रान्तोऽभूत् ॥ १ ॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ! । किं किं भीषणमेतद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजम्भवाः ॥ २ ॥ दैत्य इति । विसृष्टचक्षुषि सर्वतः सञ्चारितनयने सति न मृगात्मकं न मनुजाकारं नरसिंहाकारं वपुः तद् दृष्ट्वा किं किमेतद् भीषणमद्भुतं चेति व्युद्धा न्तचित्तेऽसुरे हिरण्यकशिपौ विस्फूर्जद्भिर्विकस्वरैर्धवलोअरोमभि: विकसत् प्रकाश- मानं च वर्ष्म स्वरूपं यस्य स त्वं समाजृम्भयाः स्फुटनिर्गतोन्नतरूपोऽभूः ॥ २ ॥ १. 'त्मक | हे' क. पाठः, २. 'त: क. घ. पाठः, ३. 'रा' घ. पाठ:.